11. Guhyadi Shiranta Shadanga Nyasam – गुह्यादि शिरान्त षडङ्गन्यासः

<< 10. Shodashanga Raudrikaranam – षोडशाङ्ग रौद्रीकरणम्

मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञग्ं समि॒मं द॑धातु ।
बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑दे॒वा इ॒ह मा॑दयन्ताम् ॥
गुह्याय नमः ॥ १ ॥
[-अप उपस्पृश्य-]

// (तै.सं.१-५-३-११) मनः, ज्योतिः, जुषताम्, आज्यं, वि-छिन्नं, यज्ञं, सं, इमं, दधातु, बृहस्पतिः, तनुतां, इमं, नः, विश्वे, देवाः, इह, मादयन्तां //

अबो᳚ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास᳚म् ।
य॒ह्वा इ॑व॒ प्रव॒यामु॒ज्जिहा॑ना॒: प्रभा॒नव॑: सिस्रते॒ नाक॒मच्छ॑ ॥
नाभ्यै नमः ॥ २ ॥

// (तै.सं. ४-४-४) अबोधि, अग्निः, सं-इधा, जनानां, प्रति, धेनुं, इव, आ-यतीं, उषासं, यह्वाः, इव, प्र, वयां, उत्-जिहानाः, प्र, भानवः, सिस्रते, नाकं, अच्छ //

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् ।
अ॒पाग्ं रेताग्ं॑सि जिन्वति ॥
हृदयाय नमः ॥ ३ ॥

// (तै.सं.४-४-४) अग्निः, मूर्धा, दिवः, ककुत्-पतिः, पृथिव्याः, अयं, अपां, रेतांसि, जिन्वति //

मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
क॒विग्ं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥
कण्ठाय नमः ॥ ४ ॥

// (ऋ.वे.६-७-१) मूर्धानं, दिवः, अरतिं, पृथिव्याः, वैश्वानरं, ऋते, आ, जातम्, अग्निं, कविं, सं-राजं, अतिथिं, जनानां, आसन्, आ, पात्रं, जनयन्त, देवाः //

मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॑ना॒भिव॑स्ताम् ।
उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः ॥
मुखाय नमः ॥ ५ ॥

// (तै.सं.४-६-४-५) मर्माणि, ते, वर्म-भिः, छादयामि, सोमः, त्वा, राजा, अमृतेन, अभि, वस्तां, उरोः, वरीयः, वरिवः, ते, अस्तु, जयन्तं, त्वां, अनु, मदन्तु, देवाः //

जा॒तवे॑दा॒ यदि॑ वा पाव॒कोऽसि॑ ।
वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तोऽसि॑ ।
शं प्र॒जाभ्यो॒ यज॑मानाय लो॒कम् ।
ऊर्जं॒ पुष्टिं॒ दद॑द॒भ्याव॑वृथ्स्व ॥
शिरसे नमः ॥ ६ ॥

// (तै.ब्रा.का.३-१०-५) जातवेदः, यदि, वा, पावकः, असि, वैश्वानरः, यदि, वा, वैद्युतः, असि, शं, प्रजाभ्यः, यज-मानाय, लोकं, ऊर्जं, पुष्टिं, ददत्, अभि, आववृत्स्व //

12. Atma Raksha – आत्मरक्षा >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version