13. Shiva Sankalpam – शिवसङ्कल्पाः

अथ शिवसङ्कल्पाः ॥

येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व᳚म् ।
येन॑ य॒ज्ञस्ता॑यते स॒प्तहो॑ता॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १

// (शु.य.वे.३४-४, ऋ.वे.खि.४-११-६) येन, इदं, भूतं, भुवनं, भविष्यत्, परि-गृहीतं, अमृतेन, सर्वं, येन, यज्ञः, तायते, सप्तहोतः, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒यन्ति॑ ।
यत्सम्मि॑तं॒ मन॑: स॒ञ्चर॑न्ति॒ प्रा॒णिन॒स्तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २

// येन, कर्माणि, प्रचरन्ति, धीराः, यतो, वाचा, मनसा, चारुयन्ति, यत्, सम्मितं, मनः, संचरन्ति, प्राणिनः, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे शृ॑ण्वन्ति वि॒दथे॑षु॒ धीरा᳚: ।
यद॑पू॒र्वं यक्ष॒मन्त॑: प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३

// येन, कर्माणि, अपसो, मनीषिणो, यज्ञे, शृण्वन्ति, विदथेषु, धीराः, यत्, अपूर्वं, यक्षमन्तं, प्रजानां, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किं च॒ न कर्म॑ क्रि॒यते॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ४

// यत्, प्र-ज्ञानं, उत, चेतो, धृतिः, च, यत्, ज्योतिः, अन्तः, अमृतं, प्रजासु, यस्मान्, न, ऋते, किं, च, न, कर्म, क्रियते, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या᳚न्नेनी॒यते॑ऽभी॒शुभि॑र्वा॒जिन॑ इव ।
हृ॒त्प्र॒ति॒ष्ठं यदच॑रं॒ जवि॑ष्ठं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ५

// (शु.य.वे.३४-६, ऋ.वे.खि.४-११-६) सु-सारथिः, अश्वान्, इव, यत्, मनुष्यान्, नेनीयते, अभीशु-भिः, वाजिनः, इव, हृत्-प्रतिष्ठं, यत्, अजितं, जविष्ठं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

यस्मि॒न्नृच॒: साम॒ यजूग्ं॑‍षि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
यस्मिग्ग्॑श्चि॒त्तग्ं सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ६

// (शु.य.वे.३४-५, ऋ.वे.खि.४-११-५) यस्मिन्, ऋचः, साम, यजूंषि, यस्मिन्, प्रतिष्ठिता, रथनाभौ, इव, अराः, यस्मिन्, चित्तं, सर्वं, आ-उतं, प्र-जनां, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

यदत्र॑ ष॒ष्ठं त्रि॒शतग्ं॑ सु॒वीर्यं॑ य॒ज्ञस्य॑ गु॒ह्यं नव॑नाव॒ माय्य᳚म् ।
दश॑ पञ्च त्रि॒ग्ं॒शतं॒ यत्प॑रं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ७

// यत्, अत्र, षष्ठं, त्रिशतं, सुवीर्यं, यज्ञस्य, गुह्यं, नवनाव, माय्यं, दश, पञ्च, त्रिंशतं, यत्, परं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

यज्जाग्र॑तो दू॒रमु॒दैति॒ सर्वं॒ तथ्सु॒प्तस्य॑ तथै॒वैति॑ ।
दू॒रं॒ ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ८

// यत्, जाग्रतः, दूरं, उत्-ऐति, दैवं, तत्, ऊं, सुप्तस्य, तथा, एव, एति, दूरं-गमं, ज्योतिषां, ज्योतिः एकं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

येने॒दं विश्वं॒ जग॑तो ब॒भूव॑ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः ।
तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑च॒न्द्रमा॒स्तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ९ *

// येन, इदं, विश्वं, जगतः, बभूव, ये, देवा, अपि, महतो, जातवेदाः, तत्, एव, अग्निः, तत्, वायुः, तत्, सूर्यः, तत्, ?, चन्द्रमाः, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

येन॒ द्यौः पृ॑थि॒वी चा॒न्तरि॑क्षं च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च ।
येने॒दं जग॒द्व्याप्तं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १०

// येन, द्यौः, पृथिवी, च, अन्तरिक्षं, च, ये, पर्वताः, प्र-दिशो, दिशः, च, येन, इदं, जगत्, व्याप्तं, प्रजानां, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

ये म॑नो॒ हृद॑यं॒ ये च॑ दे॒वा ये दि॒व्या आपो॒ ये सू᳚र्यर॒श्मिः ।
ये श्रोत्रे॒ चक्षु॑षी स॒ञ्चर॑न्तं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ११

// ये, मनः, हृदयं, ये, च, देवा, ये, दिव्या, आपः, ये, सूर्य-रश्मिः, ये, श्रोत्रे, चक्षुषी, संचरन्तं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

अचि॑न्त्यं॒ चाप्र॑मेयं॒ च॒ व्य॒क्ता॒व्यक्त॑परं॒ च य॑त् ।
सूक्ष्मा᳚त्सूक्ष्मत॑रं ज्ञे॒यं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १२

// अ-चिन्त्यं, च, अ-प्रमेयं, च, व्यक्त, अ-व्यक्त, परं, च, यत्, सूक्ष्मात्, सूक्ष्मतरं, ज्ञेयं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

एका॑ च द॒श श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १३ 

// एका, च, दश, शतं, च, सहस्रं, च, अयुतं, च, नियुतं, च, प्रयुतं, च, अर्बुदं, च, न्यर्बुदं, च, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

ये प॑ञ्च प॒ञ्चाद॒श श॒तग्ं॑ स॒हस्र॑म॒युतं॒ न्य॑र्बुदं च ।
ते अ॑ग्नि चि॒त्तेष्ट॑का॒स्ताग्ं शरी॑रं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १४

// ये, पञ्च, पञ्चादश, शतं, सहस्रं, अयुतं, न्यर्बुदं, च, ते, अग्निः, चित्त, इष्टकाः, तां, शरीरं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् ।
यस्य॒ योनिं॒ परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १५

// वेदाहमेतं, पुरुषं, महान्, तं, आदित्यवर्णं, तमसः, परः, तात्, यस्य, योनिं, परि-पश्यन्ति, धीराः, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

यस्यै॒तं धीरा᳚: पु॒नन्ति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒तं त्वा॑ वृणुत॒मिन्दु᳚म् ।
स्था॒व॒रं जङ्ग॑मं॒ द्यौरा॑का॒शं तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १६

// यस्य, एतं, धीराः, पुनन्ति, कवयः, ब्रह्माणं, एतं, त्वा, वृणुतं, इन्दुं, स्थावरं, जङ्गमं, द्यौः, आकाशं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

परा᳚त्प॒रत॑रं चै॒व॒ त॒त्परा᳚च्चैव॒ यत्प॑रम् ।
यत्परा॒त्पर॑तो ज्ञे॒यं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १७

// परात्, परतरं, च, इव, तत्, परात्, च, इव, यत्, परं, यत्, परात्, परतः, ज्ञेयं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

परा᳚त्प॒रत॑रं ब्र॒ह्म॒ त॒त्परा᳚त्पर॒तो हरि॑: ।
यत्परा॒त्पर॑तोऽधी॒शं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १८

// परात्, परतरं, ब्रह्म, तत्, परात्, परतः, हरिः, यत्, परात्, परतः, अधीशं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

या वेदादिषु॑ गाय॒त्री स॒र्वव्या॑पी महे॒श्व॑री ।
ऋग्य॑जु॒: सामा॑थर्वै॒श्च॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १९

// या, वेदादिषु, गायत्री, सर्व-व्यापी, महेश्वरी, ऋक्, यजुः, साम, अथर्वैः, च, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

यो वै॑ दे॒वं म॑हादे॒वं॒ प्र॒यत॑: प्रण॒वः शुचि॑: ।
यः सर्वे॑ सर्व॑वेदा॒श्च तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २०

// यः, वै, देवं, महा-देवं, प्रयतः, प्रणवः, शुचिः, यः, सर्वे, सर्व-वेदाः, च, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

प्रय॑त॒: प्रण॑वोंका॒रं॒ प्र॒णवं॑ पुरु॒षोत्त॑मम् ।
ओंकारं॒ प्रण॑वात्मा॒नं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २१

// प्र-यतः, प्रणव, ओंकारं, प्रणवं, पुरुष-उत्तमं, ओंकारं, प्रणव-आत्मानं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

योऽसौ॑ स॒र्वेषु॑ वेदे॒षु॒ पठ्यते᳚ ह्यय॒मीश्व॑रः ।
अ॒का॒यो निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २२ *

// यः, असौ, सर्वेषु, वेदेषु, पठ्यते, हि, अयं, ईश्वरः, अकायो, निर्गुणो, हि, आत्मा, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

गोभि॒र्जुष्टं॒ धने॑न॒ ह्यायु॑षा च॒ बले॑न च ।
प्र॒जया॑ प॒शुभि॑: पुष्करा॒क्षं तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २३

// गोभिः, जुष्टं, धनेन, हि, आयुषा, च, बलेन, च, प्रजया, पशुभिः, पुष्कर-अक्षं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒त्तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २४

// त्रि, अम्बकं, यजामहे, सुगन्धिं, पुष्टि-वर्धनं, उर्वारुकं, इव, बन्धनात्, मृत्योः, मुक्षीय, मा, अमृतात्, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

कैला॑स॒शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये ।
दे॒वता᳚स्तत्र॑ मोद॒न्ति॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २५

// कैलास-शिखरे, रम्ये, शङ्करस्य, शिवालये, देवताः, तत्र, मोदन्ति, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

कैला॑स॒शिख॑रावा॒सा हि॒मव॑द्गिरि॒संस्थि॑तम् । [कन्य॑या]
नी॒ल॒क॒ण्ठं त्रि॑णेत्रं॒ च॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २६

// कैलास-शिखर-आवास, हिमवत्, गिरि-संस्थितं, नील-कण्ठं, त्रि-नेत्रं, च, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ नम॑ति॒ संपत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एक॒स्तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २७

// विश्वतः, चक्षुः, उत, विश्वतः, मुखः, विश्वतः, हस्त, उत, विश्वतः, पात्, सं, बाहुभ्यां, नमति, सम्पतत्, त्रैः, द्यावा, पृथिवी, जनयन्, देवा, एकः, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्वशा᳚स्त्रम॒यं विदु॑: ।
इति॑हा॒स पु॑राणा॒नां॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २८

// चतुरः, वेदान्, अधीयीत, सर्व-शास्त्रमयं, विदुः, इतिहास, पुराणानां, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ऽवधीः पि॒तरं॒ मोतमा॒तरं॑ प्रि॒यामान॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २९ *

// मा, नः, महान्तं, उत, मा, नः, अर्भकं, मा, नः, उक्षन्तं, उत, मा, नः, उक्षितं, मा, नः, वधीः, पितरं, मा, उत, मातरं, प्रियाः, मा, नः, तनुवः, रुद्र, रीरिषः, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेमते॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३०

// मा, नः, तोके, तनये, मा, नः, आयुषि, मा, नः, गोषु, मा, नः, अश्वेषु, रीरिषः, वीरान्, मा, नः, रुद्र, भामितः, वधीः, हविष्मन्तः, नमसा, विधेम, ते, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

ऋ॒तग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३१

// ऋतं, सत्यं, परं, ब्रह्म, पुरुषं, कृष्ण-पिङ्गलं, ऊर्ध्वं, एतं, विरूप-अक्षं, विश्व-रूपाय, वै, नमः, नमः, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मग्ं हृ॒दे ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३२

// कत्, रुद्राय, प्र-चेतसे, मीढुः-तमाय, तव्यसे, वः, चेम, शं-तमं, हृदे, सर्वः, हि, एषः, रुद्रः, तस्मै, रुद्राय, नमः, अस्तु, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॒स्तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३३

// ब्रह्मजत्, ज्ञानं, प्रथमं, पुरस्तात्, वि-सीमतः, सु-रुचो, व, एन, आवः, स, बुध्निया, उपमा, अस्य, विष्ठाः, सतः, च, योनिं, अ-सतः, च, विवः, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३४

// (तै.सं.४-१-८.३२) यः, प्र-अनतः, नि-मिषतः, महि-त्वा, एकः, इत्, राजा, जगत्ः, बभूव, यः, ईशे, अस्य, द्वि-पदः, चतुः-पदः, कस्मै, देवाय, हविषा, विधेम, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३५

// (तै.सं.४-१-८.३२) यः, आत्म-दाः, बल-दाः, यस्त, विश्वे, उप-आसते, प्र-शिषं, यस्य, देवाः, यस्य, छाया, अमृतं, यस्य, मृत्युः, कस्मै, देवाय, हविषा, विधेम, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३६

//गन्धद्वारां, दुराधर्षं, नित्य-पुष्टां, करीषिणीं, ईश्वरीं, सर्व-भूतानं, तां, इह, उपह्वये, श्रियं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३७

// (तै.सं. ५-५-९-३) यः, रुद्रः, अग्नौ, यः, अप्सु, यः, ओषधीषु, यः, रुद्रः, विश्वा, आविवेश, तस्मै, रुद्राय, नमो, अस्तु, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

नमकं चम॑कं चै॒व॒ पु॒रुषसू᳚क्तं च॒ यद्वि॑दुः ।
म॒हा॒दे॒वं च॑ तत्तु॒ल्यं॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३८

// नमकं, चमकं, च, एव, पुरुषसूक्तं, च, यत्, विदुः, महादेवं, च तत्, तुल्यं, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

य इदग्ं शिव॑सङ्क॒ल्प॒ग्ं स॒दा ध्या॑यन्ति॒ ब्राह्म॑णाः ।
ते परं॑ मोक्षं ग॑मिष्य॒न्ति॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३९

// य, इदं, शिवसंकल्पं, सदा, ध्यायन्ति, ब्राह्मणाः, ते, परं, मोक्षं, गमिष्यन्ति, तत्, मे, मनः, शिवसंकल्पं, अस्तु //

ओं नमो भगवते॑ रुद्रा॒य । शिवसंकल्पग्ं हृदयाय नमः ॥

14. Purusha Suktam – पुरुष सूक्तम् >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box