16. Apratiratham – अप्रतिरथम्

(य.वे.तै.सं.४-६-४, ऋ.वे.१०.१०३.१)

आ॒शुः शिशा॑नो वृष॒भो न॑ यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।
सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तग्ं सेना॑ अजयथ्सा॒कमिन्द्र॑: ॥ १

// आशुः, शिशानः, वृषभः, न, युध्मः, घनाघनः, क्षोभणः, चर्षणीनां, सं-क्रन्दनः, अनि-मिषः, एक-वीरः, शतं, सेनाः, अजयत्, साकं, इन्द्रः //

सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्य॒वनेन॑ धृ॒ष्णुना᳚ ।
तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥ २

// सं-क्रन्दनेन, अनि-मिषेण, जिष्णुना, युत्-कारेण, दुः-च्यवनेन, धृष्णुना, तत्, इन्द्रेण, जयत, तत्, सहध्वं, युधः, नरः, इषु-हस्तेन, वृष्णा //

स इषु॑हस्तै॒: स नि॑ष॒ङ्गिभि॑र्व॒शी सग्ग्‍स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
स॒ग्ं॒सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ॥ ३

// स, इषु-हस्तैः, सः, निषङ्गि-भिः, वशी, सं-स्रष्टा, सः, युधः, इन्द्रः, गणेन, संसृष्ट-जित्, सोम-पाः, बाहु-शर्धी, ऊर्ध्व-धन्वा, प्रति-हिताभिः, अस्ता //

बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हाऽमित्राग्ं॑ अप॒बाध॑मानः ।
प्र॒भ॒ञ्जन्थ्सेना᳚: प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ ४

// बृहस्पते, परि, दीय, रथेन, रक्षः-हा, अमित्रान्, अप-बाधमानः, प्र-भञ्जन्, सेनाः, प्र-मृणः, युधा, जयन्, अस्माकं, एधि, अविता, रथानाम् //

गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
इ॒मग्ं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रग्ं॑ सखा॒योऽनु॒ सग्ं र॑भध्वम् ॥ ५

// गोत्र-भिदं, गो-विदं, वज्र-बाहुं, जयन्तं, अज्म, प्र-मृणन्तं, ओजसा, इमं, स-जातः, अनु, वीरयध्वं, इन्द्रं, सखायः, अनु, सं, रभध्वम् //

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑र॒: प्रवी॑र॒: सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥ ६

// बल-विज्ञायः, स्थविरः, प्र-वीरः, सहस्वान्, वाजी, सहमानः, उग्रः, अभि-वीरः, अभि-सत्वा, सहः-जाः, जैत्रं, इन्द्र, रथं, आ, तिष्ठ, गो-वित् //

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑: ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒द्ध्यो᳚ऽस्माक॒ग्ं॒ सेना॑ अवतु॒ प्रयु॒थ्सु ॥ ७

// अभि, गोत्राणि, सहसा, गाहमानः, अदायः, वीरः, शत-मन्युः, इन्द्रः, दुः-च्यवनः, पृतना षाट्, अयुध्यः, अस्माकं, सेनाः, अवतु, प्र, युत्-सु //

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑: ।
दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚ ॥ ८

// इन्द्रः, आसां, नेता, बृहस्पतिः, दक्षिणा, यज्ञः, पुरः, एतु, सोमः, देव-सेनानां, अभि-भञ्जतीनां, जयन्तीनां, मरुतः, यन्तु, अग्रे //

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ग्ं॒ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ ९

// इन्द्रस्य, वृष्णः, वरुणस्य, राज्ञः, आदित्यानां, मरुतां, शर्धः, उग्रं, महा-मनसां, भुवन-च्यवानां, घोषः, देवानां, जयतां, उत्, अस्थात् //

अ॒स्माक॒मिन्द्र॒: समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मान् उ॑ देवा अवता॒ हवे॑षु ॥ १०

// अस्माकं, इन्द्रः, सं-ऋतेषु, ध्वजेषु, अस्माकं, याः, इषवः, ताः, जयन्तु, अस्माकं, वीराः, उत्-तरे, भवन्तु, अस्मान्, उ, देवाः, अवत, हवेषु //

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युथ्सत्व॑नां माम॒कानां॒ महाग्ं॑सि ।
उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोष॑: ॥ ११

// उत्, हर्षय, मघ-वन्, आयुधानि, उत्, सत्वनां, मामकानां, महांसि, उत्, वृत्र-हन्, वाजिनां, वाजिनानि, उत्, रथानां, जयतां, एतु, घोषाः //

उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा व॑: सन्तु बा॒हव॑: ।
इन्द्रो॑ व॒: शर्म॑ यच्छत्वनाधृ॒ष्या यथाऽस॑थ ॥ १२

// उप, प्र, इत, जयत, नरः, स्थिराः, वः, सन्तु, बाहवः, इन्द्रः, वः, शर्म, यच्छतु, अना-धृष्याः, यथा, असथ //

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सग्ंशिता ।
गच्छा॒मित्रा॒न्प्रवि॑श॒ मैषां कं च॒नोच्छि॑षः ॥ १३

// अव-सृष्टा, पर, पत, शरव्ये, ब्रह्म-संशिता, गच्छ, अमित्रान्, प्र, विश, मा, एषां, कं, चन, उत्, शिषः //

मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॑ना॒भिव॑स्ताम् ।
उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑मदन्तु दे॒वाः ॥ १४

// मर्माणि, ते, वर्म-भिः, छादयामि, सोमः, त्वा, राजा, अमृतेन, अभि, वस्तां, उरोः, वरीयः, वरिवः, ते, अस्तु, जयन्तं, त्वां, अनु, मदन्तु, देवाः //

यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छ॒तु ॥ १५

// यत्र, बाणाः, सं-पतन्ति, कुमाराः, वि-शिखाः, इव, इन्द्रः, नः, तत्र, वृत्र-हा, विश्व-हा, शर्म, यच्छतु //

(* दे॒वा॒सु॒राः संयु॑त्ता आस॒न् ते दे॒वा एत॒दप्र॑तिरथमपश्य॒न् तेन॒ वै ते᳚ प्र॒ति- *) असु॑रानजय॒न् तदप्र॑तिरथस्या प्रतिरथ॒त्वं यदप्र॑तिरथं द्वि॒तीयो॒ होता॒ऽन्वाहा᳚प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्यां जय॒त्यथो॒ अन॑भिजितमे॒वाभिज॑यति दश॒र्चं भ॑वति॒ दशा᳚क्षरा वि॒राड्वि॒राजे॒मौलो॒कौ विधृ॑ता वन॒यो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वाग्नी᳚द्ध्र॒माग्नी᳚द्ध्रे (* -श्मा॑नं॒ निद॑धाति *) ॥

// (* देव-असुराः, संयुत्, ता, आसन्, ते, देवा, एतत्, अप्रतिरथं, अपश्यन्, तेन, वै, ते, प्रति,*) असुरान्, अजयन्, तत्, अप्रतिरथस्या, प्रति-रथत्वं, यत्-अप्रतिरथं, द्वितीयो, होता, अन्वाहाप्रति, एव, तेन, यजमानो, भ्रातृव्यां, जयति, अथो, अनभिजितं, एव, अभिजयति, दशर्चं, भवति, दशाक्षरा, विराट्, विराज, इमौ, लोकौ, विधृता, वनयोः, लोकयोः, विधृत्या, अथः, दशाक्षरा, विराट्, अन्नं, विराट्, विराज्येवान्, आद्ये, प्रतितिष्ठति, असत्, इव, वा, अन्तरिक्षं, अन्तरिक्षं, इव, अग्नीध्रं, अग्नीध्रेश्मानं, नि-दधाति //

ओं नमो भगवते॑ रुद्रा॒य । आशुः शिशानोऽप्रतिरथं कवचाय हुम् ॥

17. Pratipurusham – प्रतिपूरुषम् >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version