17. Pratipurusham – प्रतिपूरुषम्

(तै.सं.१-८-६-१)

प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न् निर्व॑प॒त्येक॒मति॑रिक्तं॒ याव॑न्तो गृ॒ह्या᳚: स्मस्तेभ्य॒: कम॑करं पशू॒नाग्ं शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्यं॑ भेष॒जग्ं सुभे॑षज॒म् ॥ १

// प्रति-पूरुषं, एक-कपालान्, निर्, वपति, एकं, अति-रिक्तं, यावन्तः, गृह्याः, स्मः, तेभ्यः, कं, अकरं, पशूनां, शर्म, असि, शर्म, यजमानस्य, शर्म, मे, यच्छ, एकः, एव, रुद्रः, न, द्वितीयाय, तस्थे, आखुः, ते, रुद्र, पशुः, तं, जुषस्व, एषः, ते, रुद्र, भागः, सह, स्वस्रा, अम्बिकया, तं, जुषस्व, भेषजं, गवे, अश्वाय, पुरुषाय, भेषजं, अथो, अस्म-भ्यं, भेषजं, सु-भेषजम् //

यथाऽस॑ति । सु॒गं मे॒षाय॑ मे॒ष्या॑ अवा᳚म्ब रु॒द्रम॑दिम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ न॒: श्रेय॑स॒: कर॒द्यथा॑ नो॒ वस्य॑ स॒: कर॒द्यथा॑ न॒: पशु॒मत॒: कर॒द्यथा॑ नो व्यवसा॒यया᳚त् । त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् । ए॒षते॑ रुद्र भा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॒ह्यव॑तत धन्वा॒ पिना॑कहस्त॒: कृत्ति॑वासाः ॥ २

// यथा, असति, सु-गं, मेषाय, मेष्यै, अव, अम्ब, रुद्रं, अदिमहि, अव, देवं, त्रि-अम्बकं, यथा, नः, श्रेयसः, करत्, यथा, नः, वस्यस्यः, करत्, यथा, नः, पशु-मतः, करत्, यथा, नः, वि-अवसाययात्, त्रि-अम्बकं, यजामहे, सु-गन्धिं, पुष्टि-वर्धनं, उर्वारुकं, इव, बन्धनात्, मृत्योः, मुक्षीय, मा, अमृतात्, एष, ते, रुद्र, भागः, तं, जुषस्व, तेन, अवसेन, परः, मूज-वतः, अति, इहि, अवतत-धन्वा, पिनाक-हस्तः, कृत्ति-वासाः -//

(तै.ब्रा.१-६-१०)

प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्रं नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रये᳚त् । अ॒न्त॒र॒व॒चा॒रिणग्ं॑ रु॒द्रं कु॑र्यात् । ए॒को॒ल्मु॒केन॑ यन्ति ॥ १ ॥

// प्रतिपूरुषं, एक-कपालान्, निर्-वपति, जाता एव, प्रजा, रुद्रान्, निरवदयते, एकं, अतिरिक्तं, जनिष्यमाणा, एव, प्रजा, रुद्रान्, निरवदयते, एक-कपाला, भवन्ति, एकधा, इव, रुद्रं, निरवदयते, न, अभिधारयति, यत्, अभिधारयेत्, अन्तः, अवचारिणं, एकोल्मुकेन, यन्ति //

तद्धि रु॒द्रस्य॑ भाग॒धेय᳚म् । इ॒मां दिशं॑ यन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते । रु॒द्रो॒ वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शुं निर्दि॑शति । यदि॒ न द्वि॒ष्यात् । आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् ॥ २ ॥

// तत्, हि, रुद्रस्य, भागधेयं, इमां, दिशं, यन्ति, एषा, वै, रुद्रस्य, दिक्, स्व, अयं, एव, दिशि, रुद्रं, निरवदयते, रुद्रः, वा, अपशुकया, आहुत्यै, नातिष्ठत, असौ, ते, पशुः, इति, निर्दिशेत्, यं, द्विष्यात्, यं, एव, द्वेष्टि, तं, अस्मै, पशुं, निर्दिशति, यदि, न, द्विष्यात्, आखुः, ते, पशुः, इति, ब्रूयात् //

न ग्रा॒म्यान् प॒शून् हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒नां पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति । म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रु॒ग्घ्ये॑षा । अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्य᳚म् । अ॒न्त॒त॒ ए॒व रु॒द्रं नि॒रव॑दयते ॥ ३ ॥

// न, ग्राम्यान्, पशून्, हिनस्ति, न, अरण्यान्, चतुष्पथे, जुहोति, एष, वा, अग्नीनां, पड्बीशः, नाम, अग्निवति, इव, जुहोति, मध्यमेन, पर्णेन, जुहोति, स्रुक्धि, एषा, अथः, खलु, अन्तमेन, एव, होतव्यं, अन्ततः, एव, रुद्रं, निरवदयते //

ए॒ष ते॑ रुद्र भा॒गः स॒हस्वस्राऽम्बि॑क॒येत्या॑ह । श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा᳚ । तया॒ वा ए॒ष हि॑नस्ति । यग्ं हि॒नस्ति॑ । तयै॒वैनग्ं॑ स॒ह श॑मयति । भे॒ष॒जं गव॒ इत्या॑ह । याव॑न्त ए॒व ग्रा॒म्याः प॒शव॑: । तेभ्यो॑ भेष॒जं क॑रोति । अवा᳚म्ब रु॒द्रम॑दिम॒हीत्या॑ह । आ॒शिष॑मे॒वैतामा शा᳚स्ते ॥ ४ ॥

// एष, ते, रुद्र, भागः, सह, स्वस्रा, अम्बिकय, इत्याह, शरत्, वा, अस्य, अम्बिकया, स्वसा, तया, वा, एष, हिनस्ति, यं, हिनस्ति, तया, इव, एनं, सह, शमयति, भेषजं, गव, इत्याह, यावन्त, एव, ग्राम्याः, पशवः, तेभ्यः, भेषजं, करोति, अव, अम्ब, रुद्रं, अदि-महि, इत्याह, आशिषं, एव, एतां, आ, शास्ते //

त्र्य॑म्बकं यजामह॒ इत्या॑ह । मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दिति॒ वावैतदा॑ह । उत्कि॑रन्ति । भग॑स्य लीप्सन्ते । मूते॑ कृ॒त्वाऽऽस॑जन्ति । यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्त्यै । अप्र॑तीक्ष॒माय॑न्ति । अप॒: परि॑षिञ्चति । रु॒द्रस्या॒न्तर्हि॑त्यै । प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते । ये त्र्य॑म्बकै॒श्चर॑न्ति । आ॒दि॒त्यं च॒रुं पुन॒रेत्य॒ निर्व॑पति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ॥ ५ ॥

// त्रि-अम्बकं, यजामह, इत्याह, मृत्योः, मुक्षीय, मा, अमृतात्, इति, वा, वै, तदाह, उत्किरन्ति, भगस्य, लीप्सन्ते, मूते, कृत्वा, आसजन्ति, यथा, जनं, यतेवसं, करोति, तादृक्, एव, तत्, एष, ते, रुद्र, भाग, इत्याह, निरवत्यै, अप्रतीक्षं, आयन्ति, अपः, परिषिञ्चति, रुद्रस्य, अन्तः, हित्यै, प्र, वा, एते, अस्मान्, लोकात्, च्यवन्ते, ये, त्रि-अम्बकैः, चरन्ति, आदित्यं, चरुं, पुनरेत्य, निर्वपति, इयं, वा, अदितिः, अस्यां, एव, प्रतितिष्टन्ति //

(ऋ.वे.१०-१७०-९)

वि॒भ्राड्-बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ॥

// विभ्राट्, बृहत्, पिबतु, सोम्यं, मधु, आयुः, दधत्, यज्ञपतौ, अविह्रुतं, वातजूतः, यः, अभिरक्षति, त्मना, प्रजाः, पुपोष, पुरुधा, वि, राजति //

ओं नमो भगवते॑ रुद्रा॒य । प्रतिपूरुषं प्रतिपूरुषं विभ्राडिति नेत्रत्रयाय वौषट् ॥

18. Tvamagne Rudro Anuvaka – त्वमग्ने रुद्रोऽनुवाकः >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version