20. Sashtanga Pranama – साष्टाङ्ग प्रणामः

अथ अष्टसाष्टाङ्गं प्रणम्य ॥

(तै.सं.४-१-८-३१)
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
उरसा नमः ॥ १

// हिरण्य-गर्भः, सं, अवर्तत, अग्रे, भूतस्य, जातः, पतिः, एकः, आसीत्, सः, दाधार, पृथिवीं, द्यां, उत, इमां, कस्मै, देवाय, हविषा, विधेम //

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
शिरसा नमः ॥ २

// यः, प्र-अनतः, नि-मिषतः, महि-त्वा, इत्, राजा, जगतः, बभूव, यः, ईशे, अस्य, द्वि-पदः, चतुः-पदः, कस्मै, देवाय, हविषा, विधेम //

(तै.सं.४-२-८-३४)
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॑: ॥
दृष्ट्या नमः ॥ ३

// ब्रह्म, जज्ञानं, प्रथमं, पुरस्तात्, वि-सीमतः, सु-रुचः, वेनः, आवः, सः, बुध्नियाः, उप-माः, अस्य, वि-स्थाः, सतः, च, योनिं, असतः, च, विवः //

(तै.सं.४-२-९-३८)
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
पि॒पृ॒तां नो॒ भरी॑मभिः ॥
मनसा नमः ॥ ४

// मही, द्यौः, पृथिवी, च, नः, इमं, यज्ञं, मिमिक्षतं, पिपृतां, नः, भरीम-भिः //

(तै.सं.४-६-६-३२)
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑सेध॒ शत्रून्॑ ॥
वचसा नमः ॥ ५

// उप, श्वासय, पृथिवीं, उत, द्यां, पुरु-त्रा, ते, मनुतां, वि-स्थितं, जगत्, सः, दुन्दुभे, स-जूः, इन्द्रेण, देवैः, दूरात्, दवीयः, अप, सेध, शत्रून् //

(तै.सं.१-१-१४-२७)
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥
पद्भ्यां नमः ॥ ६

// अग्ने, नय, सु-पथा, रये, अस्मान्, विश्वानि, देव, वयुनानि, विद्वान्, युयोधि, अस्मत्, जुहुराणं, एनः, भूयिष्ठां, ते, नमः-उक्तिं, विधेम //

(तै.सं.१-२-११-२१)
या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा॒ या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒ग्॒ स्वाहा᳚ ॥
कराभ्यां नमः ॥ ७

// या, ते, अग्ने, रुद्रिया, तनूः, तया, नः, पाहि, तस्याः, ते, स्वाहा, या, ते, अग्ने, अया-शया, रजा-शया, हरा-शया, तनूः, वर्षिष्ठा, गह्वरे-स्था, उग्रं, वचः, अप, अवधीं, त्वेषं, वचः, अप, अवधीं, स्वाहा //

(तै.सं.२-६-१२-७०)
इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑: संविदा॒नः ।
आ त्वा॒ मन्त्रा᳚: कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥
कर्णाभ्यां नमः ॥ ८

// इमं, यम, प्र-स्तरं, एति, हि, सीद, अङ्गिरः-भिः, पितृ-भिः, सं-विदानः, आ, त्वा, मन्त्राः, कवि-शस्ताः, वहन्तु, एना, राजन्, हविषा, मादयस्व //

इति साष्टाङ्गं प्रणम्य ।

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥

21. Laghu Nyasam – लघुन्यासः >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version