24. Malapakarshana Snanam – मलापकर्षण स्नानम्

श्रीरुद्राय नमः शुद्धोदकेन स्नपयामि ।

(तै.सं.५-६-१)
हिर॑ण्यवर्णा॒: शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्र॑: ।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒: शग्ग् स्यो॒ना भ॑वन्तु ॥ १

// हिरण्य-वर्णाः, शुचयः, पावकाः, यसु, जातः, कश्यपः, यासु, इन्द्रः, अग्निं, याः, गर्भं, दधिरे, वि-रूपाः, ताः, नः, आपः, शं, स्योनाः, भवन्तु //

यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
म॒धु॒श्चुत॒: शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒: शग्ग् स्यो॒ना भ॑वन्तु ॥ २

// यासां, राजा, वरुणः, याति, मध्ये, सत्य-अनृते, अव-पश्यन्, जनानां, मधु-श्चुतः, शुचयः, याः, पावकाः, ताः, नः, आपः, शं, स्योना, भवन्तु //

यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आप॒: शग्ग् स्यो॒ना भ॑वन्तु ॥ ३

// यासां, देवाः, दिवि, कृण्वन्ति, भक्षं, याः, अन्तरिक्षे, बहु-धा, भवन्ति, याः, पृथिवीं, पयसा, उन्दन्ति, शुक्राः, ताः, नः, आपः, शं, स्योना, भवन्तु //

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒नुवोऽप॑ स्पृशत॒ त्वचं॑ मे ।
सर्वाग्ं॑ अ॒ग्नीग्ं र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त ॥ ४

// शिवेन, मा, चक्षुषा, पश्यत, आपः, शिवया, तनुवा, उप, स्पृशत, त्वचं, मे, सर्वान्, अग्नीन्, अफ्सु-सदः, हुवे, वः, मयि, वर्चः, बलं, ओजो, नि, धत्त //

यद॒दः सं॑प्रय॒तीरहा॒वन॑दताह॒ ते ।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥ ५

// यत्, अदः, सं-प्रयतीः, अहौ, अनदत, हते, तस्मात्, आ, नद्यः, नाम, स्थ, ता, वः, नामानि, सिन्धवः //

यत्प्रेषि॑ता॒ वरु॑णे॒न ताः शीभग्ं॑ स॒मव॑ल्गत ।
तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑स्थन ॥ ६

// यत्, प्र-इषिताः, वरुणेन, ताः, शीभं, सं-अवल्गत, तत्, आप्नोत्, इन्द्रः, वः, यातीः, तस्मत्, आपः, अनु, स्थान //

अ॒प॒का॒मग् स्यन्द॑माना॒ अवी॑वरत वो॒ हि क᳚म् ।
इन्द्रो॑ व॒: शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ॥ ७

// अप-कामं, स्यन्दमानाः, अवीवरत, वः, हिकं, इन्द्रः, वः, शक्ति-भिः, देवीः, तस्मात्, वाः, नाम, वः, हितं //

एको॑ दे॒वो अप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम् ।
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥ ८

// एकः, देवः, अपि, अतिष्ठत्, स्यन्दमानाः, यथा-वशं, उत्, आनुषुः, महीः, इति, तस्मात्, उदकं, उच्यते //

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्या॒प॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचां॑ अ॒रं॒ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन् ॥ ९

// आपः, भद्राः, घृतं, इत्, आपः, आसुः, अग्नी-सोमौ, बिभ्रति, आपः, इत्, ताः, तीव्रः, रसः, मधु-पृचां, अरंगमः, आ, मा, प्र-अनेन, सह, वर्चसा, गन् //

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् ।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा व॑: ॥ १०

// आत्, इत्, पश्यामि, उत, वा, शृणोमि, आ, मा, घोषः, गच्छति, वाक्, नः, आसां, मन्ये, भेजानः, अमृतस्य, तर्हि, हिरण्य-वर्णाः, अतृपं, यदा, वः //

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥ ११
यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ॥ १२
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥ १३

// आपः, हि, स्थ, मयः-भुवः, ताः, नः, ऊर्जे, दधातन, महे, रणाय, चक्षसे, यः, वः, शिव-तमः, रसः, तस्य, भाजयत, इह, नः, उशतीः, इव, मातरः, तस्मै, अरं, गमाम, वः, यस्य, क्षयाय, जिन्वथ, आपः, जनयथ, च, नः //

दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या सं भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा ॥ १४

// दिवि, श्रयस्व, अन्तरिक्षे, यतस्व, पृथिव्या, सं, भव, ब्रह्मवर्चसं, असि, ब्रह्मवर्चसाय, त्वा //

(तै.सं.५-६-२)
अ॒पां ग्रहा᳚न्गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒ यदे॒ते ग्रहा᳚: स॒वो᳚ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो᳚ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्य॒मृतं॑ वा आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भिषि॑ञ्चन्ति॒ नाऽऽर्ति॒मार्छ॑ति॒ सर्व॒मायु॑रेति॒ ॥

(तै.ब्रा.१-४-८-१)
पव॑मान॒: सुव॒र्जन॑: । प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यव॑: । जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ग्ं॒ रनु॑ ॥ १

यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देव सवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे । वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः सध॒ माद्ये॑षु । व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ २

वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वात॑: प्रा॒णेने॑षि॒रो म॑यो॒भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् । बृ॒हद्भि॑: सवित॒स्तृभि॑: । वर्षि॑ष्ठैर्देव॒ मन्म॑भिः । अग्ने॒ दक्षै᳚: पुनाहि मा । येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यं कश॑: । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥ ३

इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नीर॒द्ध्येति॑ । ऋषि॑भि॒: संभृ॑त॒ग्ं॒ रस᳚म् । सर्व॒ग्ं॒ स पू॒तम॑श्नाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर्यो अ॒ध्येति॑ । ऋषि॑भि॒: संभृ॑त॒ग्ं॒ रस᳚म् । तस्मै॒ सर॑स्वती दुहे । क्षी॒रग्ं स॒र्पिर्मधू॑द॒कम् । पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः ॥ ४

सु॒दुघा॒ हि पय॑स्वतीः । ऋषि॑भि॒: संभृ॑तो॒ रस॑: । ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम् । पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मं लो॒कमथो॑ अ॒मुम् । कामा॒न्‍थ्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैः स॒माभृ॑ताः । पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः । सु॒दुघा॒ हि घृ॑त॒श्चुत॑: । ऋषि॑भि॒: संभृ॑तो॒ रस॑: ॥ ५

ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम् । येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚ । तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा । प्रा॒जा॒प॒त्यं प॒वित्र᳚म् । श॒तोद्या॑मग्ं हिर॒ण्मय᳚म् । तेन॑ ब्रह्म॒विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्र॑: सुनी॒ती स॒ह मा॑ पुनातु । सोम॑: स्व॒स्त्या वरु॑णः स॒मीच्या᳚ । य॒मो राजा᳚ प्रमृ॒णाभि॑: पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ॥ ६

(तै.आ.१०-२९-४७)
आपो॒ वा इ॒दग्ं सर्वं॒ विश्वा॑ भू॒तान्याप॑: प्रा॒णा वा आप॑: प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑: स॒म्राडापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ग्॒स्यापो॒ ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्याप॑: स॒त्यमाप॒: सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम् ॥

(तै.ब्रा.३-२-४-१)
अ॒पः प्रण॑यति । श्र॒द्धा वा आप॑: । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । य॒ज्ञो वा आप॑: । य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । वज्रो॒ वा आप॑: । वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्रहृत्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै । अ॒पः प्रण॑यति । आपो॒ वै दे॒वानां᳚ प्रि॒यं धाम॑ । दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वता᳚: । दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ॥

श्री रुद्राय नमः । मलापकर्षणस्नानं समर्पयामि ।

Sri Rudram (Dhyanam and Nyasam) – श्री रुद्रम् (ध्यानम्, न्यासम्) >>

1st Rudrabhishekam – प्रथम वाराभिषेचनम् >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version