(तै.ब्रा.२-६-५-३)
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हं विश्वै᳚र्दे॒वैः । क्ष॒त्रस्य॒ नाभि॑रसि । क्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामासी॑द । सु॒षदा॒मासी॑द । मा त्वा॑ हिग्ंसीत् । मा मा॑ हिग्ंसीत् । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः । प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॑: । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । अ॒श्विनो॒र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन । वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ॥
// मित्रः, असि, वरुणः, असि, समहं, विश्वैः, देवैः, क्षत्रस्य, न, अभिः, असि, क्षत्रस्य, योनिः, असि, स्योना, मा, आसीद, सुषदा, मा, आसीद //
(तै.सं.१-७-१०-४१)
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ग्ं॒ सर॑स्वतीग्ं सवि॒तारं॑ च वा॒जिन᳚म् । सोम॒ग्ं॒ राजा॑नं॒ वरु॑णम॒ग्निम॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒ग्ं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति᳚म् । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ सर॑स्वत्यै वा॒चोय॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥
// अर्यमणं, बृहस्पतिं, इन्द्रं, दानाय, चोदय, वाचं, विष्णुं, सरस्वतीं, सवितारं, च, वाजिनं, सोमं, राजानं, वरुणं, अग्निं, अनु-आरभामहे, आदित्यान्, विष्णुं, सूर्यं, ब्रह्माणं, च, बृहस्पतिं, देवस्य, त्वा, सवितुः, प्र-सवे, अश्विनोः, बाहु-भ्यां, पूष्णः, हस्ताभ्यां, सरस्वत्यै, वाचः, यन्तुः, यन्त्रेण, अग्नेः, त्वा, सां-राज्येन, अभि, सिञ्चामि, इन्द्रस्य, बृहस्पतेः, त्वा, सां-राज्येन, अभि, सिञ्चामि //
(तै.सं. ५-५-९-४१)
दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ता᳚च्चो॒परि॑ष्टाच्च पान्तु॒ न वा ए॒तेन॑ पू॒तो न मेध्यो॒ न प्रोक्षि॑तो॒ यदे॑न॒मत॑: प्रा॒चीनं॑ प्रो॒क्षति॒ यत्संचि॑त॒माज्ये॑न प्रो॒क्षति॒ तेन॑ पू॒तस्तेन॒ मेध्य॒स्तेन॒ प्रोक्षि॑तः ॥
// देवाः, त्वा, इन्द्र-ज्येष्ठाः, वरुण-राजानः, अधस्तात्, च, उपरिष्टात्, च, पान्तु, न, वै, एतेन, पूतः, न, मेध्यः, न, प्र-उक्षितः, यत्, एनं, अतः, प्राचीनं, प्र-उक्षति, यत्, सं-चितं, आज्येन, प्र-उक्षति, तेन, पूतः, तेन, मध्यः, तेन, प्र-उक्षितः //
(तै.ब्रा.२-७-१५-५-५३)
वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा । रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा । विश्वे᳚ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा । बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥
// वसवः, त्वा, पुरस्तात्, अभिषिञ्चन्तु, गायत्रेण, छन्दसा, रुद्रः, त्वा, दक्षिणतः, अभिषिञ्चन्तु, त्रैष्टुभेन, छन्दसा, आदित्याः, त्वा, पश्चात्, अभिषिञ्चन्तु, जागतेन, छन्दसा, विश्वे, त्वा, देवा, उत्तरतः, अभिषिञ्चन्तु, अनुष्टुभेन, छन्दसा, बृहस्पतिः, त्वा, उपरिष्टात्, अभिषिञ्चन्तु, पाङ्क्तेन, छन्दसा //
(तै.ब्रा.२-८-६-८-४७)
इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिर॑: । क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न । त्वा द॑त्तेभी रुद्र॒ शन्त॑मेभिः । श॒तग्ं हिमा॑ अशीय भेष॒जेभि॑: । व्य॑स्मद्द्वेषो॑ वित॒रं व्यग्ंह॑: । व्यमी॑वाग्श्चातयस्वा॒ विषू॑चीः ॥
// इमा, रुद्राय, स्थिरधन्वने, गिरः, क्षिप्र, इषवे, देवाय, स्व-धाम्ने, अषाढाय, सहमानाय, मीढुषे, तिग्म, आयुधाय, भरता, शृणोतन, त्वा, दत्तेभिः, रुद्र, शंतं, एभिः, शतं, हिमाः, अशीय, भेषजेभिः, वि, अस्मत्, द्वेषः, वितरं, वि-अंहः, वि, अमीवान्, चातयस्वा, विषूचीः //
अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के । आ ते॑ पितर्मरुताग्ं सु॒म्नमे॑तु । मा न॒: सूर्य॑स्य स॒न्दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत । प्रजा॑येमहि रुद्र प्र॒जाभि॑: । ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हग्ंसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा᳚: । परि॑ णो रु॒द्रस्य॑ हे॒तिः स्तु॒हि श्रु॒तम् । मीढु॑ष्ट॒मार्ह॑न्बिभर्षि । त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
29. Uttara Puja – उत्तर पूजा >>
सम्पूर्ण महान्यास सूचिका पश्यतु ॥