29. Uttara Puja – उत्तर पूजा

वस्त्रम् –
ओं ज्ये॒ष्ठाय॒ नम॑: । वस्त्रं समर्पयामि ।

उपवीतम् –
ओं श्रे॒ष्ठाय॒ नम॑: । यज्ञोपवीतं समर्पयामि ।

भस्मलेपनम् –
ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥
भस्मलेपनं समर्पयामि ।

आभरणम् –
ओं रु॒द्राय॒ नम॒: । आभरणानि समर्पयामि ।

गंधम् –
ओं काला॑य॒ नम॑: । सुगन्धादि परिमळद्रव्याणि समर्पयामि ।

श्वेताक्षतान् –
ओं कल॑विकरणाय॒ नम॑: । श्वेताक्षतान् समर्पयामि ।

बिल्वदळम् –
त्रिदळं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥
ओं बल॑ विकरणाय॒ नमः । बिल्वदळं समर्पयामि ।

बिल्वाष्टोत्तरशतनाम स्तोत्रम् पश्यतु ॥

अष्टोत्तरशतनाम पूजा –
अथ शिवाष्टोत्तरशतनामभिः पूजयित्वा ॥

श्री शिव अष्टोत्तरशतनामावली पश्यतु ॥

धूपम् –
ओं बला॑य॒ नमः । धूपं आघ्रापयामि ।

दीपम् –
ओं बल॑ प्रमथनाय॒ नमः । दीपं समर्पयामि ।

नैवेद्यम् –
ओं सर्व॑भूतदमनाय॒ नम॑: । नैवेद्यं समर्पयामि ।

ताम्बूलम् –
ओं म॒नोन्म॑नाय॒ नम॑: । ताम्बूलं समर्पयामि ।

नीराजनम् –
अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
नीराजनम् समर्पयामि ।

मंत्रपुष्पम् –
ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
मंत्रपुष्पं समर्पयामि ।

प्रदक्षिण नमस्कारान् –
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑ भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
आत्म प्रदक्षिण नमस्कारान् समर्पयामि ।

पूष्पपूज –
ओं भ॒वाय॑ दे॒वाय॒ नमः – अर्क पुष्पं समर्पयामि ।
ओं श॒र्वाय॑ दे॒वाय॒ नमः – चम्पक पुष्पं समर्पयामि ।
ओं ईशा॑नाय दे॒वाय॒ नमः – पुन्नाग पुष्पं समर्पयामि ।
ओं पशु॒पत॑ये दे॒वाय॒ नमः – नन्द्यावर्त पुष्पं समर्पयामि ।
ओं रु॒द्राय॑ दे॒वाय॒ नमः – पाटल पुष्पं समर्पयामि ।
ओं उ॒ग्राय॑ दे॒वाय॒ नमः – बृहती पुष्पं समर्पयामि ।
ओं भी॒माय॑ दे॒वाय॒ नमः – करवीर पुष्पं समर्पयामि ।
ओं मह॑ते दे॒वाय॒ नमः – द्रोण पुष्पं समर्पयामि ।

ओं भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – अर्क पुष्पं समर्पयामि ।
ओं श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – चम्पक पुष्पं समर्पयामि ।
ओं ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ नम॑: – पुन्नाग पुष्पं समर्पयामि ।
ओं पशु॒पते᳚र्दे॒वस्य पत्न्यै॒ नम॑: – नन्द्यावर्त पुष्पं समर्पयामि ।
ओं रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – पाटल पुष्पं समर्पयामि ।
ओं उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – बृहती पुष्पं समर्पयामि ।
ओं भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – करवीर पुष्पं समर्पयामि ।
ओं मह॑तो दे॒वस्य॒ पत्न्यै॒ नम॑: – द्रोण पुष्पं समर्पयामि ।

तर्पणम् –
भवं देवं तर्पयामि ।
शर्वं देवं तर्पयामि ।
ईशानं देवं तर्पयामि ।
पशुपतिं देवं तर्पयामि ।
रुद्रं देवं तर्पयामि ।
उग्रं देवं तर्पयामि ।
भीमं देवं तर्पयामि ।
महान्तं देवं तर्पयामि ।
– भवस्य देवस्य पत्नीं तर्पयामि ।
– शर्वस्य देवस्य पत्नीं तर्पयामि ।
– ईशानस्य देवस्य पत्नीं तर्पयामि ।
– पशुपतेर्देवस्य पत्नीं तर्पयामि ।
– रुद्रस्य देवस्य पत्नीं तर्पयामि ।
– उग्रस्य देवस्य पत्नीं तर्पयामि ।
– भीमस्य देवस्य पत्नीं तर्पयामि ।
– महतो देवस्य पत्नीं तर्पयामि ।

(अथास्याघोरतनूरुपतिष्ठते)

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

(तै.ब्रा.३-५-१०-४)
आशा᳚स्ते॒ऽयं यज॑मानो॒ऽसौ । आयु॒राशा᳚स्ते । सु॒प्र॒जा॒स्त्वमाशा᳚स्ते । स॒जा॒त॒व॒न॒स्यामाशा᳚स्ते । उत्त॑रां देवय॒ज्यामाशा᳚स्ते । भूयो॑ हवि॒ष्कर॑ण॒माशा᳚स्ते । दि॒व्यं धामाशा᳚स्ते । विश्वं॑ प्रि॒यमाशा᳚स्ते । यद॒नेन॑ ह॒विषाऽऽशा᳚स्ते  तद॑स्या॒त्त॒दृ॑ध्यात् । तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्टं च॑ वी॒तं च॑ । उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अग्ंह॑सः स्पाताम् । इ॒ह गति॑र्वा॒मस्ये॒दं च॑ । नमो॑ दे॒वेभ्य॑: ॥

// आशाः, ते, अयं, यजमानः, आयुः, आशाः, ते, सुप्रजाः, त्वं, आशाः, ते, सजातवनस्यां, आशाः, ते, उत्तरां, देवयज्यां, आशाः, ते, भूयः, हविष्करणं, आशाः, ते, दिव्यं, धामः, आशाः, ते, विश्वं, प्रियं, आशाः, ते, यत्, अनेन, हविषा, आशाः, ते, तत्, अस्यात्, तत्, धृत्यात्, तदस्मै, देवा, रासन्ताम्, तत्, अग्निः, देवः, देवेभ्यः, वनते, वयं, अग्नेः, मानुषाः, इष्टं, च, वीतं, च, उभे, च, नो, द्यावा पृथिवी, अंहसः, स्पाताम्, इह, गतिः, वामस्य, इदं, च, नमः, देवेभः //

अनया महान्यासपूर्वक एकादशवार रुद्राभिषेचनया भगवान् सर्वात्मकः श्रीरुद्रः सुप्रीणातु ।

उत्तरतश्चण्डीश्वराय नमः निर्माल्यं विसृज्य ॥

30. Chaturveda Parayanam – चतुर्वेद पारायणम् >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version