30. Chaturveda Parayanam – चतुर्वेद पारायणम्

<< 29. Uttara Puja – उत्तर पूजा

अस्मिन् महान्यासपूर्वक रुद्राभिषेकार्चन पूजाङ्गत्वेन चतुर्द्वारेषु चतुर्वेदप्रिय चतुर्वेदपारायणमवधारय । तेषां प्रथमतः प्राग्द्वारे ऋग्वेदमवधारय ॥

ऋग्वेदम्
ओं अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् ।
होता᳚रं रत्न॒धात॑मम् ॥ (१.१.१)
ओं स्वस्ति ॥

अस्मिन् महान्यासपूर्वक रुद्राभिषेकार्चन पूजाङ्गत्वेन ऋग्वेदपारायणानन्तरं दक्षिणद्वारे यजुर्वेद पारायणमवधारय ॥

यजुर्वेदम्

ओं इ॒षे त्वो॒र्जेत्वा॑ वा॒यव॑: स्थोपा॒यव॑: स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वती॒: पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्माः मा व॑: स्ते॒न ई॑शत॒ माघशग्ं॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून् पा॑हि ॥ (तै.सं.१.१)
ओं स्वस्ति ॥

// इषे, त्वा, ऊर्जे, त्वा, वायवः, स्थ, उप-आयवः, स्थ, देवः, वः, सविता, प्र, अर्पयतु, श्रेष्ठ-तमाय, कर्मणे, आ, प्यायध्वं, अघ्नियाः, देव-भागं, ऊर्जस्वतीः, पयस्वतीः, प्रजा-वतीः, अनमीवाः, अयक्ष्माः, मा, वः, स्तेनः, ईशत, मा, अघ-शंसः, रुद्रस्य, हेतिः, परि, वः, वृणक्तु, ध्रुवाः, अस्मिन्, गो-पतौ, स्यात, बह्वीः, यजमानस्य, पशून्, पाहि //

अस्मिन् महान्यासपूर्वक रुद्राभिषेकार्चन पूजाङ्गत्वेन यजुर्वेद पारायणानन्तरं पश्चिमद्वारे सामवेदमवधारय ॥

सामवेदम्
. २३ १ २. ३१२ .३२ ३१२.. । १ .२ .. ३१२ ॥
ओं अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये । नि होता᳚ सथ्सि ब॒र्हिषि॑ ॥ (१.१.१)
ओं स्वस्ति ॥

अस्मिन् महान्यासपूर्वक रुद्राभिषेकार्चन पूजाङ्गत्वेन सामवेदपारायणानन्तरं उत्तरद्वारे अथर्ववेदपारायणमवधारय ॥

अथर्ववेदम् –
ओं ये त्रि॑ष॒प्ताः प॑रि॒यन्ति॒ विश्वा॑ रू॒पाणि॒ बिभ्र॑तः ।
वा॒चस्पति॒र्बला॒ तेषां॑ त॒न्वो॑ अ॒द्य द॑धातु मे ॥ (१.१)
ओं स्वस्ति ॥

// ये, त्रि-सप्ताः, परि-यन्ति, विश्वा, रूपाणि, बिभ्रतः, वाचः, पतिः, बला, तेषां, तन्वः, अद्य, दधातु मे //

अस्मिन् महान्यासपूर्वक रुद्राभिषेकार्चन पूजाङ्गत्वेन चतुर्द्वारेषु चतुर्वेदपारयणानन्तरं उपनिषद्वाक्यमवधारय ॥

उपनिषद्वाक्यम् – (तै.आ.७-११)
वेदमनूच्याचार्योऽन्तेवासिनम॑नुशा॒स्ति । सत्यं॒ वद । धर्मं॒ चर । स्वाध्याया᳚न्मा प्र॒मदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ १ ॥

देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । यान्यस्माकग्ं सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ २ ॥

नो इ॑तरा॒णि । एके चास्मच्छ्रेयाग्ं॑सो ब्रा॒ह्मणाः । तेषां त्वयासनेन प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् ।  अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । संवि॑दा दे॒यम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात् ॥ ३ ॥

ये तत्र ब्राह्मणा᳚: सम्म॒र्शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒: स्युः । यथा ते॑ तत्र॑ वर्ते॒रन् । तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्याते॒षु । ये तत्र ब्राह्मणा᳚: सम्म॒र्शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्मकामा॒: स्युः । यथा ते॑ तेषु॑ वर्ते॒रन् । तथा तेषु॑ वर्ते॒थाः ।  एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवमु चैत॑दुपा॒स्यम् ॥ ४ ॥

शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॑: । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्माऽवा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी᳚द्व॒क्तार᳚म् ।

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं स्वस्ति ॥

31. Svasti Vachanam – स्वस्ति वचनम् >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box