31. Svasti Vachanam – स्वस्ति वचनम्

<< 30. Chaturveda Parayanam – चतुर्वेद पारायणम्

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः ।
गो-ब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥ १ ॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितः ब्राह्मणाः सन्तु निर्भयाः ॥ २ ॥

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ॥ ३ ॥

असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ॥ ४ ॥

पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ५ ॥

ओं शान्तिः शान्तिः शान्तिः ॥


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version