<< 3. Dasha Dik Raksha Prarthana – दशदिक् रक्षा प्रार्थना
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥
शिखायै नमः ॥ १
// (तै.सं.४-५) या, ते, रुद्र, शिवा, तनूः, अघोरा, अपाप-काशिनी, तया, नः, तनुवा, शं-तमया, गिरि-शन्त, अभि-चाकशीहि //
अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ ।
तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥
शिरसे नमः ॥ २
// (तै.सं.४-५) अस्मिन्, महति, अर्णवे, अन्तरिक्षे, भवाः, अधि, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् ।
तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥
ललाटाय नमः ॥ ३
// (तै.सं.४-५) सहस्राणि, सहस्र-शः, ये, रुद्राः, अधि, भूम्याम्, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
ह॒ग्ं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥
भ्रुवोर्मध्याय नमः ॥ ४
// (तै.सं.१-८-३०) हंसः, शुचि-सत्, वसुः, अन्तरिक्ष-सत्, होता, वेदि-सत्, अतिथिः, दुरोण-सत्, नृ-सत्, वर-सत्, ऋत-सत्, व्योम-सत्, अप्-जाः, गो-जाः, ऋत-जाः, अद्रि-जाः, ऋतं, बृहत् //
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥
नेत्राभ्यां नमः ॥ ५
// (तै.सं.१-८-६-११) त्रि, अम्बकं, यजामहे, सु-गन्धिं, पुष्टि-वर्धनं, उर्वारुकं, इव, बन्धनात्, मृत्योः, मुक्षीय, मा, अमृतात् //
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॑: का॒ट्या॑य च नी॒प्या॑य च॒ ।
कर्णाभ्यां नमः ॥ ६
// (तै.सं.४-५) नमः, स्रुत्याय, च, पथ्याय, च, नमः, काट्याय, च, नीप्याय, च //
मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥
नासिकायै नमः ॥ ७
// (तै.सं.४-५) मा, नः, तोके, तनये, मा, नः, आयुषि, मा, नः, गोषु, मा, नः, अश्वेषु, रीरिषः, वीरान्, मा, नः, रुद्र, भामितः, वधीः, हविष्मन्तः, नमसा, विधेम, ते //
अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ॥
मुखाय नमः ॥ ८
// (तै.सं.४-५) अव-तत्य, धनुः, त्वम्, सहस्र-अक्ष, शत-इषुधे, नि-शीर्य, शल्यानाम्, मुखा, शिवः, नः, सु-मनाः, भव //
नील॑ग्रीवाः शिति॒कण्ठा᳚: श॒र्वा अ॒धः क्ष॑माच॒राः ॥
तेषाग्ं॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ॥
कण्ठाय नमः ॥ ९
// (तै.सं.४-५) नील-ग्रीवाः, शिति-कण्ठाः, शर्वाः, अधः, क्षमाचराः, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ॥
तेषाग्ं॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ॥
उपकण्ठाय नमः ॥ १०
// (तै.सं.४-५) नील-ग्रीवाः, शिति-कण्ठाः, दिवम्, रुद्राः, उप-श्रिताः, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥
बाहुभ्यां नमः ॥ ११
// (तै.सं.४-५) नमः, ते, अस्तु, आयुधाय, अना-तताय, धृष्णवे, उभाभ्याम्, उत, ते, नमो, बाहु-भ्याम्, तव, धन्वने //
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: ।
तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥
उपबाहुभ्यां नमः ॥ १२
// (तै.सं.४-५) या, ते, हेतिः, मीढुः-तम, हस्ते, बभूव, ते, धनुः, तया, अस्मान्, विश्वतः, त्वम्, अयक्ष्मया, परि, भुज //
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिण॑: ॥
तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥
हस्ताभ्यां नमः ॥ १३
// (तै.सं.४-५) ये, तीर्थानि, प्र-चरन्ति, सृका-वन्तः, नि-सङ्गिनः, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑: ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥
अङ्गुष्ठाभ्यां नमः ॥ १४
// सद्यः-जातं, प्रपद्यामि, सद्यः-जाताय, वै, नमः, नमः, भवे, भवे, न-अतिभवे, भवस्व, माम्, भव-उद्भवाय, नमः //
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑: श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नम॒: काला॑य॒ नम॒: कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒: सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नम॑: ॥
तर्जनीभ्यां नमः ॥ १५
// वामदेवाय, नमः, ज्येष्ठाय, नमः, श्रेष्ठाय, नमः, रुद्राय, नमः, कालाय, नमः, कल-विकरणाय, नमः, बल-विकरणाय, नमः, बलाय, नमः, बल-प्रमथनाय, नमः, सर्वभूत-दमनाय, नमः, मनोन्मनाय, नमः //
अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
मध्यमाभ्यां नमः ॥ १६
// अघोरेभ्यः, अथ, घोरेभ्यः, घोर-घोरतरेभ्यः, सर्वेभ्यः, सर्व-शर्वेभ्यः, नमः, ते, अस्तु, रुद्र-रूपेभ्यः //
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
अनामिकाभ्यां नमः ॥ १७
// तत्, पुरुषाय, विद्महे, महा-देवाय, धीमहि, तत्, नः, रुद्रः, प्रचोदयात् //
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
कनिष्ठिकाभ्यां नमः ॥ १८
// ईशानः, सर्व-विद्यानां, ईश्वरः, सर्व-भूतानां, ब्रह्म-अधिपति, ब्रह्मणः-अधिपतिः, ब्रह्मा, शिवः, मे, अस्तु, सदा-शिवों //
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्ं॒ हृद॑येभ्यः ।
हृदयाय नमः ॥ १९
// (तै.सं.४-५) नमः, वः, किरिकेभ्यः, देवानां हृदयेभ्यः //
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमः ।
पृष्ठाय नमः ॥ २०
// (तै.सं.४-५) नमः, गणेभ्यः, गणपति-भ्यः, च, वः, नमः //
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमः ।
कक्षाभ्यां नमः ॥ २१
// (तै.सं.४-५) नमः, तक्ष-भ्यः, रथ-कारेभ्यः, च, वः, नमः //
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमः ।
पार्श्वाभ्यां नमः ॥ २२
// (तै.सं.४-५) नमः, हिरण्य-बाहवे, सेना-न्ये, दिशां पतये, नमः //
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथि॑: ।
जठराय नमः ॥ २३
// (तै.सं.४-५) वि-ज्यम्, धनुः, कपर्दिनः, वि-शल्यः, बाण-वान्, उत, अनेशन्, अस्य, इषवः, आभुः, अस्य, निषङ्गथिः //
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भूतस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
सदा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
नाभ्यै नमः ॥ २४
// (तै.सं.४-१-८-३१) हिरण्य-गर्भः, सं, अवर्तत, अग्रे, भूतस्य, जातः, पतिः, एकः, आसीत्, सः, दाधारः, पृथिवीं, द्यां, उत, इमां, कस्मै, देवाय, हविषा, विधेम //
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥
कट्यै नमः ॥ २५
// (तै.सम्.४-५) मीढुः-तम, शिव-तम, शिवः, नः, सु-मनाः, भव, परमे, वृक्षे, आयुधम्, निधाय, कृत्तिं वसानः, आ, चर, पिनाक, बिभ्रत्, आ, गहि //
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: ।
तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥
गुह्याय नमः ॥ २६
[-अप उपस्पृश्य-]
// (तै.सं.४-५) ये, भूतानाम्, अधि-पतयः, वि-शिखासः, कपर्दिनः, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥
अण्डाभ्यां नमः ॥ २७
[-अप उपस्पृश्य-]
// (तै.सं.४-५) ये, अन्नेषु, वि-विध्यन्ति, पात्रेषु, पिबतः, जनान्, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
स॒ शि॑रा जा॒तवे॑दाः । अ॒क्षरं॑ पर॒मं प॒दम् । वे॒दाना॒ग्ं॒ शिर॑ उत्तमम् । जा॒तवे॑दसे॒ शिर॑सि मा॒ता ब्रह्म॒ भूर्भुव॒: सुव॒रोम् ॥
अपानाय नमः ॥ २८
[-अप उपस्पृश्य-]
// सः, शिरा, जातवेदाः, अक्षरं, परमं, पदं, वेदानां, शिर, उत्तमं, जातवेदसे, शिरसि, माता, ब्रह्म, भूः, भुवः, सुवः, ओं //
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥
ऊरुभ्यां नमः ॥ २९
// (तै.सं.४-५) मा, नः, महान्तम्, उत, मा, नः, अर्भकम्, मा, नः, उक्षन्तम्, उत, मा, नः, उक्षितम्, मा, नः, वधीः, पितरम्, मा, उत, मातरम्, प्रियाः, मा, नः, तनुवः, रुद्र, रीरिषः //
ए॒ष ते॑ रुद्रभा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्त॒: कृत्ति॑वासाः ॥
जानुभ्यां नमः ॥ ३०
// (तै.सं.१-८-६-११) एषः, ते, रुद्र, भागः, तं, जुषस्व, तेन, अवसेन, परः, मूज-वतः, अति, इहि, अवतत-धन्वा, पिनाक-हस्तः, कृत्ति-वासाः //
स॒ग्ं॒सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ।
बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हाऽमित्राग्ं॑ अप॒बाध॑मानः ॥
जङ्घाभ्यां नमः ॥ ३१
// (तै.सं.४-६-४) संसृष्ट-जित्, सोम-पाः, बाहु-शर्धी, ऊर्ध्व-धन्वा, प्रति-हिताभिः, अस्ता, बृहस्पते, परि, दीय, रथेन, रक्षः-हा, अमित्रान्, अप-बाधमानः //
विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
गुल्फाभ्यां नमः ॥ ३२
// (तै.आ.१०-२४-१) विश्वं, भूतं, भुवनं, चित्रं, बहुधा, जातं, जायमानं, च, यत्, सर्वः, हि, एषः, रुद्रः, तस्मै, रुद्राय, नमः, अस्तु //
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युध॑: ॥
तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥
पादाभ्यां नमः ॥ ३३
[-अप उपस्पृश्य-]
// (तै.सं.४-५) ये, पथाम्, पथि-रक्षयः, ऐलबृदाः, यव्युधः, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीग्॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒न्थ्सर्वा᳚श्च यातुधा॒न्य॑: ॥
कवचाय नमः ॥ ३४
// (तै.सं.४-५) अधि, अवोचत्, अधि-वक्ता, प्रथमः, दैव्यः, भिषक्, अहीन्, च, सर्वान्, जम्भयन्, सर्वाः, च, यातु-धान्यः //
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥
उपकवचाय नमः ॥ ३५
// (तै.सं.४-५) नमः, बिल्मिने, च कवचिने, च, नमः श्रुताय, च श्रुत-सेनाय, च //
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ॥
तृतीयनेत्राय नमः ॥ ३६
// (तै.सं.४-५) नमः, अस्तु, नील-ग्रीवाय, सहस्र-अक्षाय, मीढुषे, अथो, ये, अस्य, सत्वानः, अहं, तेभ्यः, अकरम्, नमः //
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ॥
अस्त्राय नमः ॥ ३७
// (तै.सं.४-५) प्र, मुञ्च, धन्वनः, त्वं, उभयोः, आर्त्नियोः, ज्याम्, याः, च, ते, हस्ते, इषवः, पर, ताः, भग-वः, वप //
य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥
[** पाठभेदः – इति दिग्बन्धः **]
दिग्बन्धाय नमः ॥ ३८
// (तै.सं.४-५) य, एतावन्तः च, भूयांसः श्च, दिशः, रुद्राः, वि-तस्थिरे, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
5. Dashakshari Nyasa – दशाक्षरी न्यासः >>
सम्पूर्ण महान्यास सूचिका पश्यतु ॥