6. Padadi Murdhanta Panchanga Nyasam – पादादि मूर्धान्त पञ्चाङ्गन्यासः

स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑: । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥
पादाभ्यां नमः ॥ १
[-अप उपस्पृश्य-]

// सद्यः-जातं, प्रपद्यामि, सद्यः-जाताय, वै, नमः, नमः, भवे, भवे, न-अतिभवे, भवस्व, माम्, भव-उद्भवाय, नमः //

वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑: श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नम॒: काला॑य॒ नम॒: कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒: सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नम॑: ॥
ऊरुमध्याभ्यां नमः ॥ २
[-अप उपस्पृश्य-]

// वामदेवाय, नमः, ज्येष्ठाय, नमः, श्रेष्ठाय, नमः, रुद्राय, नमः, कालाय, नमः, कल-विकरणाय, नमः, बल-विकरणाय, नमः, बलाय, नमः, बल-प्रमथनाय, नमः, सर्वभूत-दमनाय, नमः, मनोन्मनाय, नमः //

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
हृदयाय नमः ॥ ३

// अघोरेभ्यः, अथ, घोरेभ्यः, घोर-घोरतरेभ्यः, सर्वेभ्यः, सर्व-शर्वेभ्यः, नमः, ते, अस्तु, रुद्र-रूपेभ्यः //

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
मुखाय नमः ॥ ४

// तत्, पुरुषाय, विद्महे, महा-देवाय, धीमहि, तत्, नः, रुद्रः, प्रचोदयात् //

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑ भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
मूर्ध्ने नमः ॥ ५

// ईशानः, सर्व-विद्यानां, ईश्वरः, सर्व-भूतानां, ब्रह्म-अधिपति, ब्रह्मणः-अधिपतिः, ब्रह्मा, शिवः, मे, अस्तु, सदा-शिवों //

7. Hamsa Gayatri – हंस गायत्री >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version