8. Dik Samputa Nyasam – दिक्संपुटन्यासः

(इन्द्रादीन् दिक्षुविन्यस्य ।)

ओं भूर्भुव॒स्सुव॑: । ओं ओं ।
त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् ।
हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑:॥
ओं नमो भगवते॑ रुद्रा॒य । ओं ओं ।
पूर्वदिग्भागे इन्द्राय नमः ॥ १

// (तै.सं.१-६-१२-५०) त्रातारं, इन्द्रं, अवितारं, इन्द्रं, हवे-हवे, सु-हवं, शूरं, इन्द्रं, हुवे, नु, शक्रं, पुरु-हूतं, इन्द्रं, स्वस्ति, नः, मघ-वा, धातु, इन्द्रः //

ओं भूर्भुव॒स्सुव॑: । ओं नं ।
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
ओं नमो भगवते॑ रुद्रा॒य । नं ओं ।
आग्नेयदिग्भागे अग्नये नमः ॥ २

// (तै.सं.२-५-१२-७२) त्वं, नः, अग्ने, वरुणस्य, विद्वान्, देवस्य, हेडः, अव, यासिसीष्ठाः, यजिष्ठः, वह्नि-तमः, शोशुचानः, विश्वा, द्वेषांसि, प्र, मुमुग्धि, अस्मत् //

ओं भूर्भुव॒स्सुव॑: । ओं मों ।
सु॒गं न॒: पन्था॒मभ॑यं कृणोतु ।
यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।

यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः ।
तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ॥

ओं नमो भगवते॑ रुद्रा॒य । मों ओं ।
दक्षिणदिग्भागे यमाय नमः ॥ ३

// (तै.ब्रा.३-१-२-११-२३) सुगं, नः, पन्थां, अभयं, कृणोतु, यस्मिन्, नक्षत्रे, यम, एति, राजा, यस्मिन्, एनं, अभ्यषिञ्चन्त, देवाः, तत्, अस्य, चित्रं, हविषा, यजाम //

ओं भूर्भुव॒स्सुव॑: । ओं भं ।
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥
ओं नमो भगवते॑ रुद्रा॒य । भं ओं ।
निर्.ऋतिदिग्भागे निर्.ऋतये नमः ॥ ४

// (तै.सं.४-२-५-२१) असुन्वन्तं, अयजमानं, इच्छ, स्तेनस्य, इत्यां, तस्करस्य, अनु, एषि, अन्यं, अस्मत्, इच्छ, सा, ते, इत्या, नमः, देवि, निः-ऋते, तुभ्यं, अस्तु //

ओं भूर्भुव॒स्सुव॑: । ओं गं ।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयु॒: प्रमो॑षीः ॥
ओं नमो भगवते॑ रुद्रा॒य । गं ओं ।
पश्चिमदिग्भागे वरुणाय नमः ॥ ५

// (तै.सं.२-१-११-६५) तत्, त्वा, यामि, ब्रह्मणा, वन्दमानः, तत्, आ, शास्ते, यजमानः, हविः-भिः, अहेडमानः, वरुण, इह, बोधि, उरु-शंस, मा, नः, आयुः, प्र, मोषीः //

ओं भूर्भुव॒स्सुव॑: । ओं वं ।
आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रम् ।
स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व ।
यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ओं नमो भगवते॑ रुद्रा॒य । वं ओं ।
वायव्यदिग्भागे वायवे नमः ॥ ६

// (तै.ब्रा.२-८-१-२) आ, नः, नियुद्भिः, शतिनीभिः, अध्वरं, सहस्रिणिभिः, उप, याहि, यज्ञं, वायो, अस्मिन्, हविषि, मादयस्व, यूयं, पात, स्वस्तिभिः, सदा, नः //

ओं भूर्भुव॒स्सुव॑: । ओं तें ।
व॒यग्ं सो॑म व्र॒ते तव॑ ।
मन॑स्त॒नूषु॒ बिभ्र॑तः ।

प्र॒जाव॑न्तो अशीमहि ।
इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ॥

ओं नमो भगवते॑ रुद्रा॒य । तें ओं ।
उत्तरदिग्भागे कुबेराय नमः ॥ ७

// (तै.ब्रा.२-४-२-१८) वयं, सोम, व्रते, तव, मनः, तनूषु, बिभ्रतः, प्रजावन्तः, अशीमहि, इन्द्राणी, देवी, सुभगा, सुपत्नी //

ओं भूर्भुव॒स्सुव॑: । ओं रुं ।
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियं जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥
ओं नमो भगवते॑ रुद्रा॒य । रुं ओं ।
ईशान्यदिग्भागे ईशानाय नमः ॥ ८

// (ऋ.वे.१-८९-५) तं, ईशानं, जगतः, तस्थुषः, पतिं, धियं-जिन्वं, अवसे, हूमहे, वयं, पूषा, नः, यथा, वेदसां, असत्, वृधे, रक्षिता, पायुः, अदब्धः, स्वस्तये //

ओं भूर्भुव॒स्सुव॑: । ओं द्रां ।
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा᳚: ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥
ओं नमो भगवते॑ रुद्रा॒य । द्रां ओं ।
ऊर्ध्वदिग्भागे आकाशाय नमः ॥ ९

// (ऋ.वे.८-६३-१२) अस्मे, रुद्राः, मेहना, पर्वतासः, वृत्र-हत्ये, भर-हूतौ, स-जोषाः, यः, शंसते, स्तुवते, धायि, पज्रः, इन्द्र-ज्येष्ठाः, अस्मान्, अवन्तु, देवाः //

ओं भूर्भुव॒स्सुव॑: । ओं यं ।
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒: शर्म॑ स॒प्रथा᳚: ॥
ओं नमो भगवते॑ रुद्रा॒य । यं ओं ।
अधोदिग्भागे पृथिव्यै नमः ॥ १०
[-अप उपस्पृश्य-]

// (तै.आ.ए.का.२-१५) स्योना, पृथिवि, भवान्, ऋक्षरा, निवेशनी, यच्छा, नः, शर्म, सुप्रथाः //

9. Dashanga Raudrikaranam – दशाङ्ग रौद्रीकरणम् >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box
Exit mobile version