Prarthana – प्रार्थना

ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥
ओं श्रीमहागणाधिपतये नमः ॥

प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
धी॒नाम॑वि॒त्र्य॑वतु ॥ (ऋ.६.६१.४)
श्रीमहासरस्वत्यै नमः ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परं ब्रह्मा तस्मै श्रीगुरवे नमः ॥
श्री॒गु॒रु॒भ्यो नम॒: । ह॒रि॒: ओम् ।

1. Panchanga Rudra Nyasam – पञ्चाङ्गरुद्रन्यासः >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box