ओं भूर्भुव॒स्सुव॑: । ओं ओं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् ।
हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑: ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ओं ओं ।
पूर्वदिग्भागे ललाटस्थाने इंद्राय नमः ॥ १ ॥
// (तै.सं.१-६-१२-५०) = त्रातारं, इन्द्रं, अवितारं, इन्द्रं, हवे-हवे, सु-हवं, शूरं, इन्द्रं, हुवे, नु, शक्रं, पुरु-हूतं, इन्द्रं, स्वस्ति, नः, मघ-वा, धातु, इन्द्रः //
ओं भूर्भुव॒स्सुव॑: । ओं नं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । नं ओं ।
आग्नेयदिग्भागे नेत्रयोस्थाने अग्नये नमः ॥ २ ॥
// (तै.सं.२-५-१२-७२) = त्वं, नः, अग्ने, वरुणस्य, विद्वान्, देवस्य, हेडः, अव, यासिसीष्ठाः, यजिष्ठः, वह्नि-तमः, शोशुचानः, विश्वा, द्वेषांसि, प्र, मुमुग्धि, अस्मत् //
ओं भूर्भुव॒स्सुव॑: । ओं मों ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
सु॒गं न॒: पन्था॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । मों ओं ।
दक्षिणदिग्भागे कर्णयोस्थाने यमाय नमः ॥ ३ ॥
// (तै.ब्रा.३-१-२-११-२३) = सुगं, नः, पन्थां, अभयं, कृणोतु, यस्मिन्, नक्षत्रे, यम, एति, राजा, यस्मिन्, एनं, अभ्यषिञ्चन्त, देवाः, तत्, अस्य, चित्रं, हविषा, यजाम //
ओं भूर्भुव॒स्सुव॑: । ओं भं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
असु॑न्वन्त॒ मय॑जमानमिच्छस्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । भं ओं ।
निर्.ऋतिदिग्भागे मुखस्थाने निर्.ऋतये नमः ॥ ४ ॥
// (तै.सं.४-२-५-२१) = असुन्वन्तं, अयजमानं, इच्छ, स्तेनस्य, इत्यां, तस्करस्य, अनु, एषि, अन्यं, अस्मत्, इच्छ, सा, ते, इत्या, नमः, देवि, निः-ऋते, तुभ्यं, अस्तु //
ओं भूर्भुव॒स्सुव॑: । ओं गं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयु॒: प्रमो॑षीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । गं ओं ।
पश्चिमदिग्भागे बाह्वोस्थाने वरुणाय नमः ॥ ५ ॥
// (तै.सं.२-१-११-६५) = तत्, त्वा, यामि, ब्रह्मणा, वन्दमानः, तत्, आ, शास्ते, यजमानः, हविः-भिः, अहेडमानः, वरुण, इह, बोधि, उरु-शंस, मा, नः, आयुः, प्र, मोषीः //
ओं भूर्भुव॒स्सुव॑: । ओं वं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रग्ं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । वं ओं ।
वायव्यदिग्भागे नासिकास्थाने वायवे नमः ॥ ६ ॥
// (तै.ब्रा.२-८-१-२) आ, नः, नियुद्भिः, शतिनीभिः, अध्वरं, सहस्रिणिभिः, उप, याहि, यज्ञं, वायो, अस्मिन्, हविषि, मादयस्व, यूयं, पात, स्वस्तिभिः, सदा, नः //
ओं भूर्भुव॒स्सुव॑: । ओं तें ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
व॒यग्ं सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒बिभ्र॑तः ।
प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । तें ओं ।
उत्तरदिग्भागे जठरस्थाने कुबेराय नमः ॥ ७ ॥
// (तै.ब्रा.२-४-२-१८) वयं, सोम, व्रते, तव, मनः, तनूषु, बिभ्रतः, प्रजावन्तः, अशीमहि, इन्द्राणी, देवी, सुभगा, सुपत्नी //
ओं भूर्भुव॒स्सुव॑: । ओं रुं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियं जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । रुं ओं ।
ईशान्यदिग्भागे नाभिस्थाने ईशानाय नमः ॥ ८ ॥
// (ऋ.वे.१-८९-५) तं, ईशानं, जगतः, तस्थुषः, पतिं, धियं-जिन्वं, अवसे, हूमहे, वयं, पूषा, नः, यथा, वेदसां, असत्, वृधे, रक्षिता, पायुः, अदब्धः, स्वस्तये //
ओं भूर्भुव॒स्सुव॑: । ओं द्रां ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा᳚: ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । द्रां ओं ।
ऊर्ध्वदिग्भागे मूर्ध्निस्थाने आकाशाय नमः ॥ ९ ॥
// (ऋ.वे.८-६३-१२) अस्मे, रुद्राः, मेहना, पर्वतासः, वृत्र-हत्ये, भर-हूतौ, स-जोषाः, यः, शंसते, स्तुवते, धायि, पज्रः, इन्द्र-ज्येष्ठाः, अस्मान्, अवन्तु, देवाः //
ओं भूर्भुव॒स्सुव॑: । ओं यं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒: शर्म॑ स॒प्रथा᳚: ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । यं ओं ।
अधोदिग्भागे पादस्थाने पृथिव्यै नमः ॥ १० ॥
[-अप उपस्पृश्य-]
// (तै.आ.ए.का.२-१५) स्योना, पृथिवि, भवान्, ऋक्षरा, निवेशनी, यच्छा, नः, शर्म, सुप्रथाः //
10. Shodashanga Raudrikaranam – षोडशाङ्ग रौद्रीकरणम् >>
सम्पूर्ण महान्यास सूचिका पश्यतु ॥
(* पद्धतिपाठः -आदौ प्रणवमुच्चार्य व्याहृतिः प्रणवं ततः ।
बीजमंत्रं समुच्चार्य मंत्रान्ते बीजमुच्चरेत् ॥
ललाट नेत्र कर्णेषु मुखे बाह्वोश्च नासिके ।
जठरे नाभि मूर्ध्नोश्च पादयोर्दशदैहिकम् ।
बीजमन्त्रं समुच्चार्य मन्त्रान्ते बीजमुच्चरेत् ॥
प्रणवं व्याहृतीर्बीजं शम्भवे च ततः परम् ।
दिङ्मन्त्रं शम्भवे चान्तं बीजं प्रणवमुच्चरेत् ॥ *)