<< 9. Dashanga Raudrikaranam – दशाङ्ग रौद्रीकरणम्
अथ षोडशाङ्ग रौद्रीकरणम् ॥
(* पद्धतिपाठः – शिखा शिरश्च मूर्धा च ललाटं नेत्र कर्णकौ ।
मुखं च कण्ठ बाहू च हृन्नाभी च कटिस्तथा ।
ऊरू जानू जङ्घ पादौ षोडशाङ्गस्थलानि वै ॥ *)
ओं भूर्भुव॒स्सुव॑: । ओं अं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
वि॒भूर॑सि प्र॒वाह॑णो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । अं ओं ।
शिखास्थाने रुद्राय नमः ॥ १ ॥
// (तै.सं.१-३-३-५) वि-भूः, असि, प्र-वाहनः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं आं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
वह्नि॑रसि हव्य॒वाह॑नो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । आं ओं ।
शिरस्थाने रुद्राय नमः ॥ २ ॥
// (तै.सं.१-३-३-५) वह्निः, असि, हव्य-वाहनः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं इं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
श्वा॒त्रो॑सि॒ प्रचे॑ता॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । इं ओं ।
मूर्ध्निस्थाने रुद्राय नमः ॥ ३ ॥
// (तै.सं.१-३-३-५) श्वात्रः, असि, प्र-चेताः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं ईं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तु॒थो॑सि वि॒श्ववे॑दा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ईं ओं ।
ललाटस्थाने रुद्राय नमः ॥ ४ ॥
// (तै.सं.१-३-३-५) तुथः, असि, विश्व-वेदाः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं उं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
उ॒शिग॑सिक॒वी रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । उं ओं ।
नेत्रयोस्थाने रुद्राय नमः ॥ ५ ॥
// (तै.सं.१-३-३-५) उशिक्, असि, कविः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं ऊं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अङ्घा॑रिरसि॒ बम्भा॑री॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ऊं ओं ।
कर्णयोस्थाने रुद्राय नमः ॥ ६ ॥
// (तै.सं.१-३-३-५) अङ्घारिः, असि, बभारिः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं ऋं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒व॒स्युर॑सि॒ दुव॑स्वा॒न् रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ऋं ओं ।
मुखस्थाने रुद्राय नमः ॥ ७ ॥
// (तै.सं.१-३-३-५) अवस्युः, असि, दुवस्वान्, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं ॠं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
शु॒न्ध्यूर॑सि मार्जा॒लीयो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ॠं ओं ।
कण्ठस्थाने रुद्राय नमः ॥ ८ ॥
// (तै.सं.१-३-३-५) शुन्ध्यूः, असि, मार्जालीयः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं ऌं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
स॒म्राड॑सि कृ॒शानू॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ऌं ओं ।
बाह्वोस्थाने रुद्राय नमः ॥ ९ ॥
// (तै.सं.१-३-३-५) सं-राट्, असि, कृश-अनुः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं ॡं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
प॒रि॒षद्यो॑सि॒ पव॑मानो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ॡं ओं ।
हृदिस्थाने रुद्राय नमः ॥ १० ॥
// (तै.सं.१-३-३-५) परि-सद्यः, असि, पवमानः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं एं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
प्र॒तक्वा॑ऽसि॒ नभ॑स्वा॒न् रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । एं ओं ।
नाभिस्थाने रुद्राय नमः ॥ ११ ॥
// (तै.सं.१-३-३-५) प्र-तक्वा, असि, नभस्वान्, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं ऐं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
असं॑मृष्टोसि हव्य॒सूदो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ऐं ओं ।
कटिस्थाने रुद्राय नमः ॥ १२ ॥
// (तै.सं.१-३-३-५) असं-मृष्टः, असि, हव्य-सूदः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं ओं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योती॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ओं ओं ।
ऊरुस्थाने रुद्राय नमः ॥ १३ ॥
// (तै.सं.१-३-३-५) ऋत-धामा, असि, सुवः-ज्योतिः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं औं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । औं ओं ।
जानुस्थाने रुद्राय नमः ॥ १४ ॥
// (तै.सं.१-३-३-५) ब्रह्म-ज्योतिः, असि, सुवः-धामा, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं अं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒जो᳚ऽस्येक॑पा॒द्रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । अं ओं ।
जङ्घास्थाने रुद्राय नमः ॥ १५ ॥
// (तै.सं.१-३-३-५) अजः, असि, एक-पात्, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
ओं भूर्भुव॒स्सुव॑: । ओं अः ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । अः ओं ।
पादयोः स्थाने रुद्राय नमः ॥ १६ ॥
[-अप उपस्पृश्य-]
// (तै.सं.१-३-३-५) अहिः, असि, बुध्नियः, रौद्रेण, अनीकेन, पाहि, मा, अग्ने, पिपृहि, मा, मा, मा, हिंसीः //
त्वगस्थिगतैः सर्वपापैः प्रमुच्यते । सर्वभूतेष्वपराजितो भवति । ततो भूतप्रेत पिशाच बद्ध ब्रह्मराक्षस यक्ष यमदूत शाकिनी डाकिनी हाकिनी शत्रु सर्प श्वापद तस्कर ज्वराद्युपद्रवजोपघाताः सर्वे ज्वलन्तं पश्यन्तु ।
[-कर्तस्य वचनम्-] मां रक्षन्तु ॥
[-पुरोहित वचनम्-] यजमानग्ं रक्षन्तु ॥
11. Guhyadi Shiranta Shadanga Nyasam – गुह्यादि शिरान्त षडङ्गन्यासः >>
सम्पूर्ण महान्यास सूचिका पश्यतु ॥