18. Tvamagne Rudro Anuvaka – त्वमग्ने रुद्रोऽनुवाकः

(तै.सं.१-३-१४)

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ॥ १

// त्वं, अग्ने, रुद्रः, असुरः, महः, दिवः, त्वं, शर्धः, मारुतं, पृक्षः, ईशिषे, त्वं, वातैः, अरुणैः, यासि, शं-गायः, त्वं, पूषा, वि-धतः, पासि, नु, त्मना //

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रग्ं होता॑रग्ं सत्य॒यज॒ग्ं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥ २

// आ, वः, राजानं, अध्वरस्य, रुद्रं, होतारं, सत्य-यजं, रोदस्योः, अग्निं, पुरा, तनयित्नोः, अचित्तात्, हिरण्य-रूपं, अवसे, कृणुध्वं //

अ॒ग्निर्होता॒ निष॑सादा॒ यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भावु॑ लो॒के ।
युवा॑ क॒विः पुरु॑नि॒ष्ठः ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥ ३

// अग्निः, होता, नि, ससाद, यजीयान्, उप-स्थे, मातुः, सुरभौ, उ, लोके, युवा, कविः, पुरु-निष्ठः, ऋत-वा, धर्ता, कृष्टीनां, उत, मध्ये, इद्धः //

सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् ।
स आयु॒राऽगा᳚थ्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥ ४

// साध्वीं, अकः, देव-वीतिं, नः, अद्य, यज्ञस्य, जिह्वां, अविदाम, गुह्यां, सः, आयुः, आ, अगात्, सुरभिः, वसानः, भद्रां, अकः, देवहूतिं, नः, अद्य //

अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो विहीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ ५

// अक्रन्दत्, अग्निः, स्तनयन्, इव, द्यौः, क्षामा, रेरिहत्, वीरुधः, सं-अञ्जन्, सद्यः, जज्ञानः, वि-हि, ईं, इद्धः, अख्यत्, आ, रोदसी, भानुना, भाति, अन्तः //

त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः ।
क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्थ्सग्ं सौभ॑गानि दधि॒रे पा॑व॒के ॥ ६

// त्वे, वसूनि, पुरु-अनीक, होतः, दोषा, वस्तोः, अ, ईरिरे, यज्ञियासः, क्षाम, इव, विश्वा, भुवनानि, यस्मिन्, सं, सौभगानि, दधिरे, पावके //

तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा᳚: सुक्षि॒तय॒: पृथ॑क् ।
अग्ने॒ कामा॑य येमिरे ॥ ७

// तुभ्यं, ताः, अङ्गिरः-तम, विश्वाः, सु-क्षितयः, पृथक्, अग्ने, कामाय, येमिरे //

अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒त्य॑श्याम॑र॒यिग्ं र॑यिवः सु॒वीर᳚म् ।
अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्यामद्यु॒म्नमज॑रा॒जरं॑ ते ॥ ८

// अश्याम, तं, कामं, अग्ने, तव, ऊती, अश्याम, रयिं, रयि-वः, सु-वीरं, अश्याम, वाजं, अभि, वाजयन्तः, अश्याम, द्युम्नं, अजर, अजरं, ते //

श्रेष्ठं॑ यविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒मा भ॑र ।
वसो॑ पुरु॒स्पृहग्ं॑ र॒यिम् ॥ ९

// श्रेष्ठं, यविष्ठ, भारत, अग्ने, द्यु-मन्तं, आ, भर, वसः, पुरु-स्पृहं, रयिं, //

स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जेर॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः ।
यः पा॑व॒कः पु॑रु॒तम॑: पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥ १०

// सः, श्वितानः, तन्यतुः, रोचन-स्थाः, अजरेभिः, नानदत्-भिः, यविष्ठः, यः, पावकः, पुरु-तमः, पुरूणि, पृथूनि, अग्निः, अनु-याति, भर्वन् //

आयु॑ष्टे वि॒श्वतो दधद॒यम॒ग्निर्वरे᳚ण्यः ।
पुन॑स्ते प्रा॒ण आय॑ति॒ परा॒ यक्ष्म॑ग्ं सुवामि ते ॥ ११

// आयुः, ते, विश्वतः, दधत्, अयं, अग्निः, वरेण्यः, पुनः, ते, प्र-अनः, अ, अयति, पर, यक्ष्मं, सुवामि, ते //

आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्त्रम॒भि र॒क्ष॒ता॒दि॒मम् ॥ १२

// आयुः-दाः, अग्ने, हविषः, जुषाणः, घृत-प्रतीकः, घृत-योनिः, एधि, घृतं, पीत्वा, मधु, चारु, गव्यं, पिता, इव, पुत्रं, अभि, रक्षतात्, इमं //

तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ जना॑मि सुष्टु॒तिम् ॥ १३

// तस्मै, ते, प्रति-हर्यते, जात-वेदः, वि-चर्षणे, अग्ने, जनामि, सु-स्तुतिं //

दि॒वस्परि॑ प्रथमं॒ ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥ १४

// दिवः, परि, प्रथमं, जज्ञे, अग्निः, अस्मत्, द्वितीयं, परि, जातवेदाः, तृतीयं, अप्सु, नृमणा, अजस्रं, इन्धान, एनं, जरते, स्व, अधीः //

शुचि॑: पावक॒ वन्द्योऽग्ने॑ बृ॒हद्विरो॑चसे ।
त्वं घृ॒तेभि॒राहु॑तः ॥ १५

// शुचिः, पावक, वन्द्यः, अग्ने, बृहत्, वि-रोचसे, त्वं, घृतेभिः, आहुतः //

दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दुर्मर्ष॒मायुः श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भिर्यदे॑नं॒ द्यौरज॑नयथ्सु॒रेता᳚: ॥ १६

// दृशानः, रुक्म, उर्व्या, व्यद्यौत्, दुर्मर्षं, आयुः, श्रिये, रुचानः, अग्निः, अमृतः, अभवत्, वयोभिः, यत्, एनं, द्यौः, अजनयत्, सुर-एताः //

आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् शुचि॒रेतो॒ निषि॑क्तं॒ द्यौर॒भीके᳚ ।
अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नग्ग् स्वा॒धियं॑ जनयत् सू॒दय॑च्च ॥ १७

// आ, यत्, इषे, नृपतिं, तेजः, आनट्, शुचिः, एतः, निषिक्तं, द्यौः, अभीके, अग्निः, शर्धं, अनवद्यं, युवानं, सु-आधियं, जनयत्, सूदयत्, च //

स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।
अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्व॑: ॥ १८

// स, तेजीयसा, मनसा, तु, ओत, उत, शिक्ष, स्व-पत्यस्य, शिक्षोः, अग्ने, रायः, नृतं, अस्य, प्रभूतौ, भूयाम, ते, सु-स्तुतयः, च, वस्वः //

अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् ।
विश्वा॒ यश्च॒र्ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त् ॥ १९

// अग्ने, सहन्तं, आ, भर, द्युम्नस्य, प्रासहा, रयिं, विश्वा, यः, चर्षणीः, अभि-आसा, वाजेषु, सासहत् //

त्वम॑ग्ने पृतना॒सहग्ं॑ र॒यिग्ं स॑हस्व॒ आ भ॑र ।
त्वग्ं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥ २०

// त्वं, अग्ने, पृतनासहं, रयिं, सहस्व, आ, भर, त्वं, हि, सत्यः, अद्भुतः, दाता, वाजस्य, गोमतः //

उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे᳚ ।
स्तोमै᳚र्विधेमा॒ग्नये᳚ ॥ २१

// उक्षान्नाय, वशान्नाय, सोमपृष्ठाय, वेधसे, स्तोमैः, विधेम, अग्नये //

व॒द्माहि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाऽज्मान्न᳚म् ।
स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒राजे॑वजेरवृ॒के क्षे᳚ष्य॒न्तः ॥ २२

// वद्मा, हि, सूनः, असि, अद्मसत्, वा, चक्रे, अग्निः, जनुष, अज्म, अन्नं, स, त्वं, न, ऊर्जसन, ऊर्जं, धाराज, इव, जेरवृके, क्षेष्यन्तः //

अग्न॒ आयूग्ं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ २३

// अग्न, आयूंषि, पवस, आ, सुवः, ऊर्जं, इषं, च, नः, आरे, बाधस्व, दुच्छुनां //

अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑: सु॒विर्य᳚म् ।
दध॒त्पोषग्ं॑ र॒यिं मयि॑ ॥ २४

// अग्ने, पवस्व, स्वपा, अस्मे, वर्चः, सु-वीर्यं, दधत्, पोषं, रयिं, मयि //

अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ ।
आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥ २५

// अग्ने, पावक, रोचिषा, मन्द्रया, देव, जिह्वया, आ, देवान्, वक्षि, यक्षि, च //

स न॑: पावक दीदि॒वोऽग्ने॑ दे॒वाग्ं इ॒हाऽऽव॑ह ।
उप॑ य॒ज्ञꣳ ह॒विश्च॑ नः ॥ २६

// स, नः, पावक, दीदिवः, अग्ने, देवां, इह, आ-वह, उप, यज्ञं, हविः, च, नः //

अ॒ग्निः शुचि॑व्रततम॒: शुचि॒र्विप्र॒: शुचि॑: क॒विः ।
शुची॑रोचत॒ आहु॑तः ॥ २७

// अग्निः, शुचिव्रततमः, शुचिः, विप्रः, शुचिः, कविः, शुचिः, रोचत, आहुतः //

उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते ।
तव॒ ज्योतीग्ं॑ष्य॒र्चयः ॥ २८

// उत्, अग्ने, शुचयः, तव, शुक्रा, भ्राजन्त, ईरते, तव, ज्योतींषि, अर्चयः //

(तै.ब्रा.३-११-२-१)
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यः । त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ।

// त्वं, अग्ने, रुद्रः, असुरः, महः, दिवः, त्वं, शर्धः, मारुतं, पृक्षः, ईशिषे, त्वं, वातैः, अरुणैः, यासि, शं-गायः, त्वं, पूषा, वि-धतः, पासि, नु, त्मना //

देवा॑ दे॒वेषु॑ श्रयध्वम् । प्रथ॑मा द्वि॒तीये॑षु श्रयध्वम् । द्विती॑यास्तृ॒तीये॑षु श्रयध्वम् । तृती॑याश्चतु॒र्थेषु॑ श्रयध्वम् । च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयध्वम् । प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयध्वम् ॥ १

// देवाः, देवेषु, श्रयध्वं / प्रथमाः द्वितीयेषु / द्वितीयाः तृतीयेषु / तृतीयाः चतुर्थेषु / चतुर्थाः पञ्चमेषु / पञ्चमाः षष्ठेषु //

ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयध्वम् । स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयध्वम् । अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयध्वम् । न॒व॒मा द॑श॒मेषु॑ श्रयध्वम् । द॒श॒मा ए॑काद॒शेषु॑ श्रयध्वम् । ए॒का॒द॒शा द्वा॑द॒शेषु॑ श्रयध्वम् । द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयध्वम् । त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयध्वम् । च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयध्वम् । प॒ञ्च॒द॒शाः षो॑ड॒शेषु॑ श्रयध्वम् ॥ २

// षष्ठाः सप्तमेषु / सप्तमाः अष्टमेषु / अष्टमाः नवमेषु / नवमाः दशमेषु / दशमाः एकादशेषु / एकादशाः द्वादशेषु / द्वादशाः त्रयोदशेषु / त्रयोदशाः चतुर्दशेषु / चतुर्दशाः पञ्चदशेषु / पञ्चदशाः षोडशेषु //

षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयध्वम् । स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयध्वम् । अ॒ष्टा॒द॒शा ए॑कान्नवि॒ग्ं॒शेषु॑ श्रयध्वम् । ए॒का॒न्न॒वि॒ग्ं॒शा वि॒ग्ं॒शेषु॑ श्रयध्वम् । वि॒ग्ं॒शा ए॑कवि॒ग्ं॒शेषु॑ श्रयध्वम् । ए॒क॒वि॒ग्ं॒शा द्वा॑वि॒ग्ं॒शेषु॑ श्रयध्वम् । द्वा॒वि॒ग्ं॒शास्त्र॑योवि॒ग्ं॒शेषु श्रयध्वम् । त्र॒यो॒वि॒ग्ं॒शाश्च॑तुर्वि॒ग्ं॒शेषु॑ श्रयध्वम् । च॒तु॒र्वि॒ग्ं॒शाः प॑ञ्चवि॒ग्ं॒शेषु॑ श्रयध्वम् । प॒ञ्च॒वि॒ग्ं॒शाः ष॑ड्वि॒ग्ं॒शेषु॑ श्रयध्वम् ॥ ३

// षोडशाः सप्तदशेषु / सप्तदशाः अष्टादशेषु / अष्टादशाः एकान्नविंशेषु / एकान्नविंशाः विंशेषु / विंशाः एकविंशेषु / एकविंशाः द्वाविंशेषु / द्वाविंशाः त्रयोविंशेषु / त्रयोविंशाः चतुर्विंशेषु / चतुर्विंशाः पञ्चविंशेषु / पञ्चविंशाः षड्विंशेषु //

ष॒ड्वि॒ग्ं॒शाः स॑प्तवि॒ग्ं॒शेषु॑ श्रयध्वम् । स॒प्त॒वि॒ग्ं॒शा अ॑ष्टावि॒ग्ं॒शेषु॑ श्रयध्वम् । अ॒ष्टा॒वि॒ग्ं॒शा ए॑कान्नत्रि॒ग्ं॒शेषु॑ श्रयध्वम् । ए॒का॒न्न॒त्रि॒ग्ं॒शास्त्रि॒ग्ं॒शेषु॑ श्रयध्वम् । त्रि॒ग्ं॒शा ए॑कत्रि॒ग्ं॒शेषु॑ श्रयध्वम् । ए॒क॒त्रि॒ग्ं॒शा द्वा᳚त्रि॒ग्ं॒शेषु॑ श्रयध्वम् । द्वा॒त्रि॒ग्ं॒शास्त्र॑यस्त्रि॒ग्ं॒शेषु॑ श्रयध्वम् । देवा᳚स्त्रिरेकादशा॒स्त्रिस्त्र॑यस्त्रि॒ग्ंशाः ।

// षड्विंशाः सप्तविंशेषु / सप्तविंशाः अष्टाविंशेषु / अष्टाविंशाः एकान्नत्रिंशेषु / एकान्नत्रिंशाः त्रिंशेषु / त्रिंशाः एकत्रिंशेषु / एकत्रिंशाः द्वात्रिंशेषु / द्वात्रिंशाः त्रयः त्रिंशेषु / देवाः, त्रिः, एकादशाः, त्रिः, त्रयः त्रिंशाः //

उत्त॑रे भवत । उत्त॑रवर्त्मान॒ उत्त॑रसत्वानः । यत्का॑म इ॒दं जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् । व॒यग्ग्.स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒: स्व॑: स्वाहा᳚ ॥ ४

// उत्तरे, भवता, उत्तरवर्त्मान, उत्तरसत्वानः, यत्, काम, इदं, जुहोमि, तत्, मे, सं-ऋद्ध्यतां, वयं, स्याम पतयः, रयीणां, भूः, भुवः, स्वः, स्वाहा //

ओं नमो भगवते॑ रुद्रा॒य । त्वमग्ने त्वमग्ने शतरुद्रीयमित्यस्त्राय फट् ॥

(* भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ *)

19. Panchanga Japa – पञ्चाङ्गजपः >>

Namakam 1st Anuvakam  – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम्


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Notes:
Shrayadhvam – shrayati (attach, mature into)

Prathama – Ganas on Pruthvi
Dviteeya – Ganas in Antariksha
Truteeya – Ganas in Divi

Note: The meaning of other numbers is unavailable to me. Once I get it I will add them here.


Facebook Comments Box