Sri Rudram (Dhyanam and Nyasam) – श्री रुद्रम् (ध्यानम्, न्यासम्)

अस्य श्रीरुद्राध्यायप्रश्न महामन्त्रस्य अघोर ऋषिः, अनुष्टुप् छन्दः, सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता, नमः शिवायेति बीजं, शिवतरायेति शक्तिः, महादेवायेति कीलकं, श्रीसाम्बसदाशिव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ऋष्यादिन्यासः –
अघोर ऋषये नमः शिरसे ।
अनुष्टुप् छन्दसे नमः मुखे ।
रुद्रो देवतायै नमः हृदि ।
नमः शिवाय नमः गुह्ये ।
शिवतराय शक्तये नमः पादयोः ।
महादेवाय कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ॥

करन्यासः –
अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः –
अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्णमासात्मने शिरसे स्वाहा ।
चातुर्मास्यात्मने शिखायै वषट् ।
निरूढपशुबन्धात्मने कवचाय हुम् ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्राय फट् ॥
भूर्भुवः सुवरोमिति दिग्बन्धः ॥

ध्यानम् –
आपातालनभःस्थलान्तभुवनब्रह्मांडमाविस्फुर-
-ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥

ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलितशशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः सुललितवपुषः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवाः नः प्रयच्छन्तु सौख्यम् ॥

Sri Rudra Namakam 1st Anuvakam – प्रथमोऽनुवाकम् >>


Facebook Comments Box