26. Dasa Shanti – दशशान्तयः (तैत्तिरीयारण्यके)

(तै.आ.१-०-०)
ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभि॑: । व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ १ ॥

// भद्रं, कर्णेभिः, शृणुयाम, देवाः, भद्रं, पश्येम, अक्षभिः, यजत्राः, स्थिरैः, रङ्गैः, तुष्टुवां, सः, तनूभिः, व्यशेम, देवहितं, यदायुः, स्वस्ति, नः, इन्द्रः, वृद्धश्रवाः, स्वस्ति, नः, पूषा, विश्ववेदाः, स्वस्ति, नः, तार्क्ष्यो, अरिष्टनेमिः, स्वस्ति, नः, बृहस्पतिः, ददातु //

(तै.आ.२-०-०)
ओं नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नम॑: पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ २ ॥

// नमः, ब्रह्मणे, नमः, अस्तु, अग्नये, नमः, पृथिव्यै, नमः, ओषधीभ्यः, नमः, वाचे, नमः, वाचस्पतये, नमः, विष्णवे, बृहते, करोमि //

(तै.आ.३-०-०)
ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚: स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ३ ॥

// तत्, शं, योः, आवृणीमहे, गातुं, यज्ञाय, गातुं, यज्ञपतये, दैवीः, स्वस्तिः, अस्तु, नः, स्वस्तिः, मानुषेभ्यः, ऊर्ध्वं, जिगातु, भेषजं, शं, नो, अस्तु, द्विपदे, शं, चतुष्पदे //

(तै.आ.४-१-१)
ओं नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒ मामामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑य॒: परा॑दु॒र्माऽहमृषी᳚न्मन्त्र॒कृतो॑ मन्त्र॒पती॒न् परा॑दां वैश्वदे॒वीं वाच॑मुद्यासग्ं शि॒वामद॑स्तां॒ जुष्टां᳚ दे॒वेभ्य॒: शर्म॑ मे॒ द्यौः शर्म॑ पृथि॒वी शर्म॒ विश्व॑मि॒दं जग॑त् । शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्मप्रजाप॒ती ।

// नमः, वाचे, या, च, उदिता, या, च, अनुदिता, तस्यै, वाचे, नमः, नमः, वाचे, नमः, वाचस्पतये, नमः, ऋषिभ्यः, मन्त्रकृद्भ्यः, मन्त्रपतिभ्यः, मा, मां, ऋषयः, मन्त्रकृतो, मन्त्रपतयः, परादुः, मा, अहं, ऋषीन्, मन्त्रकृते, मन्त्रपतीन्, परादाः, वैश्वदेवीं, वाचं, उद्यासं, शिवमदः, तां, जुष्टां, देवेभ्यः, शर्म, मे, द्यौः, शर्म, पृथिवी, शर्म, विश्वं, इदं, जगत्, शर्म, चन्द्रः, च, सूर्यः, च, शर्म, ब्रह्म, प्रजापती //

भू॒तं व॑दिष्ये॒ भुव॑नं वदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒ ब्रह्म॑ वदिष्ये स॒त्यं व॑दिष्ये॒ तस्मा॑ अ॒हमि॒दमु॑प॒स्तर॑ण॒मुप॑स्तृण उप॒स्तर॑णं मे प्र॒जायै॑ पशू॒नां भू॑यादुप॒स्तर॑णम॒हं प्र॒जायै॑ पशू॒नां भू॑यासं॒ प्राणा॑पानौ मृ॒त्योर्मा॑पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासग्ं शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ४ ॥

// भूतं, वदिष्ये, भुवनं, वदिष्ये, तेजः, वदिष्ये, यशः, वदिष्ये, तपः वदिष्ये, ब्रह्म, वदिष्ये, सत्यं, वदिष्ये, तस्मा, अहं, इदं, उपः-तरणं, उपः-तृण, उपः-तरणं, मे, प्रजायै, पशूनां, भूयात्, उपः-तरणं, अहं, प्रजायै, पशूनां, भूयासं, प्राण-अपानौ, मृत्योः, मा, पातं, प्राण-अपानौ, मा, मा, हासिष्टं, मधु, मनिष्ये, मधु, जनिष्ये, मधु, वक्ष्यामि, मधु, वदिष्यामि, मधुमतीं, देवेभ्यः, वाचं, उद्यासं, शुश्रूषेणि, यां, मनुष्येभ्यः, तां, मा, देवाः, अवन्तु, शोभायै, पितरः, अनु-मदन्तु //

[* 27. Ghosha Shanti – घोष शान्तयः >> *]

(तै.आ.५-०-०)
शं न॒स्तन्नो॒ मा हा॑सीत् ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ५ ॥

// शं, नः, तत्, नो, मा, हासीत् //

(तै.आ.६-०-०)
ओं सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ६ ॥

// सं, त्वा, सिञ्चमि, यजुषा, प्रजां, आयुः, धनं, च //

(तै.आ.७-१-१)
ओं शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॑: । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार᳚म् ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ७ ॥

// शं, नः, मित्रः, शं, वरुणः, शं, नः, भवतु, अर्यमा, शं, नः, इन्द्रः, बृहस्पतिः, शं, नः, विष्णुः, उरुक्रमः, नमः, ब्रह्मणे, नमः, ते, वायो, त्वमेव, प्रत्यक्षं, ब्रह्म, असि, त्वमेव, प्रत्यक्षं, ब्रह्म, वदिष्यामि, ऋतं, वदिष्यामि, सत्यं, वदिष्यामि, तत्, मां, अवतु, तत्, वक्तारं, अवतु, अवतु, मां, अवतु, वक्तारं //

(तै.आ.८-०-०)
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ८ ॥

// सह, नौ, अवतु, सह, नौ, भुनक्तु, सह, वीर्यं, करवावहै, तेजस्वि, नौ, अधीतं, अस्तु, मा, विद्विषावहै //

(तै.आ.९-०-०)
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ९ ॥

// सह, नौ, अवतु, सह, नौ, भुनक्तु, सह, वीर्यं, करवावहै, तेजस्वि, नौ, अधीतं, अस्तु, मा, विद्विषावहै //

(तै.आ.१०-०-०)
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ १० ॥

// सह, नौ, अवतु, सह, नौ, भुनक्तु, सह, वीर्यं, करवावहै, तेजस्वि, नौ, अधीतं, अस्तु, मा, विद्विषावहै //

27. Ghosha Shanti – घोष शान्तयः >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box