(तै.आ.४-४२-८९)
ओं शं नो॒ वात॑: पवतां मात॒रिश्वा॒ शं न॑स्तपतु॒ सूर्य॑: । अहा॑नि॒ शं भ॑वन्तु न॒: शग्ं रात्रि॒: प्रति॑धीयताम् । शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा न॒: शन्त॑मा भव सुमृडी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ । इडा॑यै॒ वास्त्व॑सि वास्तु॒मद्वा᳚स्तु॒मन्तो॑ भूयास्म॒ मा वास्तो᳚श्छिथ्स्मह्यवा॒स्तुः स भू॑या॒द्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । प्र॒ति॒ष्ठाऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑ति॒ष्ठा या᳚श्छिथ्स्मह्यप्रति॒ष्ठः स भू॑या॒द्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रप॑: । त्वग्ं हि वि॒श्वभे॑षजो दे॒वानां᳚ दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒राप॑रा॒वत॑: ॥ ४-१
// शं, नः, वातः, पवतां, मातरिश्वा, शं, नः, तपतु, सूर्यः, अहानि, शं, भवन्तु, नः, शं, रात्रिः, प्रतिधीयतां, शं, उषा, नः, वि, उच्छतु, शं, आदित्यः, उदेतु, नः, शिवा, नः, शं, तं, आ, भव, समृडीका, सरस्वति, मा, ते, व्योम, संदृशि, इडायै, वास्तु, असि, वास्तुमत्, वास्तुमन्तः, भूयास्म, मा, वास्तोः, चित्स्मह्य, वास्तुः, स, भूयात्, यो, अस्मान्, देष्टि, यं, च, वयं, दिष्मः, प्रतिष्ठा, असि, प्रतिष्ठावन्तः, भूयास्म, मा, प्रतिष्ठा, याः, चित्स्मह्य, प्रतिष्ठः, स, भूयात्, यो, अस्मान्, द्वेष्टि, यं च, वयं द्विष्मः, आ, वात, वाहि, भेषजं, वि, वात, वाहि, यद्रपः, त्वं, हि, विश्वभेषजः, देवानां, दूत, ईयसे, द्वौ, इमौ, वातौ, वात, आसिन्धोः, आपरावतः //
दक्षं॑ मे अ॒न्य आ॒वातु॒ परा॒ऽन्यो वा॑तु॒ यद्रप॑: । यद॒दो वा॑त ते गृ॒हे॑ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॒ ततो॑ नो धेहि भेष॒जम् । ततो॑ नो मह॒ आव॑ह॒ वात॒ आ वा॑तु भेष॒जग्ं श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे । प्र ण॒ आयूग्ं॑षि तारिषत् । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तं त्वा॒ प्रप॑द्ये॒ सगु॒: साश्व॑: । स॒ह यन्मे॒ अस्ति॒ तेन॑ । भूः प्रप॑द्ये॒ भुव॒: प्रप॑द्ये॒ सुव॒: प्रप॑द्ये॒ भूर्भुव॒: सुव॒: प्रप॑द्ये वा॒युं प्रप॒द्येऽना᳚र्तां दे॒वतां॒ प्रप॒द्येऽश्मा॑नमाख॒णं प्रप॑द्ये प्र॒जाप॑तेर्ब्रह्मको॒शं ब्रह्म॒ प्रप॑द्य॒ ओं प्रप॑द्ये । अ॒न्तरि॑क्षं म उ॒र्व॑न्तरं॑ बृ॒हद॒ग्नय॒: पर्व॑ताश्च॒ यया॒ वात॑: स्व॒स्त्या स्व॑स्ति॒ मां तया᳚ स्व॒स्त्या स्व॑स्ति॒ मान॑सानि । प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑हासिष्टं॒ मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ ४-२
// दक्षं, मे, अन्य, आवातु, परा, अन्यः, वातु, यद्रपः, यददो, वात, ते, गृहे, अमृतस्य, निधिः, हितः, ततः, नः, देहि, जीवसे, ततः, नः, धेहि, भेषजं, ततः, नः, महः, आ-वह, वातु, आ-वातु, भेषजं, शम्भूः, मयः, भूः, नः, हृदे, प्र, ण, आयूंषि, तारिषत्, इन्द्रस्य, गृहः, असि, तं, त्वा, प्रपद्ये, सगुः, साश्वः, सह, यत्, मे, अस्ति, तेन, भूः, प्रपद्ये, भुवः, प्रपद्ये, सुवः, प्रपद्ये, भूः, भुवः, सुवः, प्रपद्ये, वायुं, प्रपद्ये, अनार्तां, देवतां, प्रपद्ये, अश्मानं, आखणं, प्रपद्ये, प्रजापतेः, ब्रह्मकोशं, ब्रह्म, प्रपद्य, ओं, प्रपद्ये, अन्तरिक्षं, म, उर्वन्तरं, बृहत्, अग्नयः, पर्वताः, च, यया, वातः, स्वस्त्या, स्वस्ति, मां, तया, स्वस्त्या, स्वस्ति, मानसानि, प्राण-अपानौ, मृत्योः, मा, पातं, प्राण-अपानौ, मा, माहासिष्टं, मयि, मेधां, मयि, प्रजां, मयि, अग्निः, तेजः, दधातु, मयि, मेधां, मयि, प्रजां, मयि, इन्द्र, इन्द्रियं, दधातु, मयि, मेधां, मयि, प्रजां, मयि, सूर्यः, भ्राजः, दधातु //
द्यु॒भिर॒क्तुभि॒: परि॑पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः । कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒: सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता । कस्त्वा॑ स॒त्यो मदा॑नां॒ मग्ंहि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒ढाचि॑दा॒रुजे॒ वसु॑ । अ॒भीषु ण॒: सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभि॑: । वय॑: सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान् ॥ ४-३
// द्युभिः, अक्तुभिः, परिपातं, अस्मान्, अरिष्टेभिः, अश्विना, सौभगेभिः, तत्, नः, मित्रः, वरुणः, मां, अहन्तां, अदितिः, सिन्धुः, पृथिवी, उत, द्यौः, कया, नः, चित्र, आभुवदूती, सदावृधः, सखा, कया, शचिः, तया, वृता, कः, त्वा, सत्यो, मदानां, मंहि, स्थः, मत्, सत्, अन्धसः, दृढाचित्, आरुजे, वसु, अभीषु, नः, सखीनां, अविता, जरितॄणां, शतं, भवास्य, ऊतिभिः, वयः, सुपर्णा, उपसेदुः, इन्द्रं, प्रिय-मेधा, ऋषयः, नाधमानाः, अप, ध्वान्तं, ऊर्णुहि, पूर्धि, चक्षुः, मुमुग्धि, अस्मान्, निधय, इव, बद्धान् //
शं नो॑ देवीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भिस्र॑वन्तु नः । ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् । सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒त॑रः । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ॥ ४-४
// शं, नः, देवीः, अभिष्टय, आपः, भवन्तु, पीतये, शं, योः, अभिस्रवन्तु, नः, ईशाना, वार्याणां, क्षयन्तीः, चर्षणीनां, अपः, याचामि, भेषजं, सुमित्रा, नः, आपः, ओषधयः, सन्तु, दुः-मित्राः, तस्मै, भूयासुः, यो, अस्मान्, द्वेष्टि, यं, च, वयं, द्विष्मः, आपः, हि, स्था, मयोभुवः, ता, न, ऊर्जे, दधातन, महे, रणाय, चक्षसे, यः, वः, शिवतमः, रसः, तस्य, भाजयत, इह, नः, उशतीः, इव, मातरः, तस्मा, अरं, गमाम, वः, यस्य, क्षयाय, जिन्वथ //
आपो॑ ज॒नय॑था च नः । पृ॒थि॒वी शा॒न्ता साऽग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता शुचग्ं॑ शमयतु । अ॒न्तरि॑क्षग्ं शा॒न्तं तद्वा॒युना॑ शा॒न्तं तन्मे॑ शा॒न्तग्ं शुचग्ं॑ शमयतु । द्यौः शा॒न्ता साऽऽदि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचग्ं॑ शमयतु । पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒ग्ं॒ शान्ति॒र्द्यौः शान्ति॒र्दिश॒: शान्ति॑रवान्तरदि॒शाः शान्ति॑र॒ग्निः शान्ति॑र्वा॒युः शान्ति॑रादि॒त्यः शान्ति॑श्च॒न्द्रमा॒: शान्ति॒र्नक्ष॑त्राणि॒ शान्ति॒राप॒: शान्ति॒रोष॑धय॒: शान्ति॒र्वन॒स्पत॑य॒: शान्ति॒र्गौः शान्ति॑र॒जा शान्ति॒रश्व॒: शान्ति॒: पुरु॑ष॒: शान्ति॒र्ब्रह्म॒ शान्ति॑र्ब्राह्म॒णः शान्ति॒: शान्ति॑रे॒व शान्तिः शान्ति॑र्मे अस्तु॒ शान्ति॑: ।
// आपः, जनयथा, च, नः, पृथिवी, शान्ता, सा, अग्निना, शान्ता, सा, मे, शान्ता, शुचं, शमयतु, अन्तरिक्षं, शान्तं, तत्, वायुना, शान्तं, तत्, मे, शान्तं, शुचं, शमयतु, द्यौः, शान्ता, सा, आदित्येन, शान्ता, सा, मे, शान्ता, शुचं, शमयतु, पृथिवी, शान्तिः, अन्तरिक्षं, द्यौः, दिशः, अवान्तर-दिशाः, अग्निः, वायुः, आदित्यः, चन्द्रमाः, नक्षत्राणि, आपः, ओषधयः, वनस्पतयः, गौः, अजाः, अश्वः, पुरुषः, ब्रह्म, ब्राह्मणः, शान्तिः, शान्तिः, एव, शान्तिः, शान्तिः, मे, अस्तु, शान्तिः //
तया॒ऽहग्ं शा॒न्त्या स॑र्वशा॒न्त्या मह्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च॒ शान्तिं॑ करोमि॒ शान्ति॑र्मे अस्तु॒ शान्ति॑: । एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒मनूत्ति॑ष्ठन्तु॒ मा मा॒ग्॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः । उदायु॑षा स्वा॒युषोदोष॑धीना॒ग्ं॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ग्ं॒ अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रद॑: श॒तं जीवे॑म श॒रद॑: श॒तं नन्दा॑म श॒रद॑: श॒तं मोदा॑म श॒रद॑: श॒तं भवा॑म श॒रद॑: श॒तग्ं शृ॒णवा॑म श॒रद॑: श॒तं प्रब्र॑वाम श॒रद॑: श॒तमजी॑ताः स्याम श॒रद॑: श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे ।
// तया, अहं, शान्त्या, सर्वशान्त्या, मह्यं, द्विपदे, चतुष्पदे, च, शान्तिं, करोमि, शान्तिः, मे, अस्तु, शान्तिः, एह, श्रीः, च, ह्रीः, च, धृतिः, च, तपो, मेधा, प्रतिष्ठा, श्रद्धा, सत्यं, धर्मः, च, एतानि, मा, उत्तिष्ठन्तं, अनु-उत्तिष्ठन्तु, मा, मां, श्रीः, च, ह्रीः, च, धृतिः, च, तपो, मेधा, प्रतिष्ठा, श्रद्धा, सत्यं, धर्मः, च, एतानि, मा, मा, हासिषुः, उत्, आयुषा, स्वायुषः, उत्, ओषधीनां, रसेन, उत्, पर्जन्यस्य, सुष्मेण, उदस्थां, अमृतान्, अनु, तत्, चक्षुः, देवहितं, पुरस्तात्, शुक्रं, उच्चरेत्, पश्येम, शरदः, शतं, जीवेम, नन्दाम, मोदाम, भवाम, शृणवाम, प्रब्रवाम, अजीताः, स्याम, ज्योक्, च, सूर्यं, दृशे //
य उद॑गान्मह॒तोऽर्णवा᳚द्वि॒भ्राज॑मानः सरि॒रस्य॒ मध्या॒त्स मा॑ वृष॒भो लो॑हिता॒क्षः सूर्यो॑ विप॒श्चिन्मन॑सा पुनातु । ब्रह्म॑ण॒: श्रोत॑न्यसि॒ ब्रह्म॑ण आ॒णी स्थो॒ ब्रह्म॑ण आ॒वप॑नमसि धारि॒तेयं पृ॑थि॒वी ब्रह्म॑णा म॒ही धा॑रि॒तमे॑नेन म॒हद॒न्तरि॑क्षं॒ दिवं॑ दाधार पृथि॒वीग्ं सदे॑वां॒ यद॒हं वेद॒ तद॒हं धा॑रयाणि॒ मा मद्वेदोऽधि॒ विस्र॑सत् । मे॒धा॒म॒नी॒षे माऽऽवि॑शताग्ं स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुध्यै॒ सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् । ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ४-५ ॥ ४ ॥
// य, उदगात्, महतः, अर्णवात्, विभ्राजमानः, सरिरस्य, मध्यात्, मा, वृषभः, लोहिताक्षः, सूर्यः, विपश्चित्, मनसा, पुनातु, ब्रह्मणः, श्रोतनी, असि, ब्रह्मणः, आणी-स्थः, ब्रह्मणः, आवपनं, असि, धारिता, इयं, पृथिवी, ब्रह्मणा, मही, धारितं, एनेन, महत्, अन्तरिक्षं, दिवं, दाधार, पृथिवीं, स-देवां, यत्, अहं, वेद, तत्, अहं, धारयाणि, मा, मत्, वेदः, अधि, विस्रसत्, मेधा, मनीषे, मा, आविशतां, समीची, भूतस्य, भव्यस्य, अवरुद्ध्यै, सर्वमायुः, अयाणि, सर्वमायुः, अयाणि, आभिः, गीभिः, यत्, अतः, न, ऊनं, आप्यायय, हरिवः, वर्धमानः, यदा, स्तोतृभ्यः, महि, गोत्रा, रुजासि, भूयिष्ठभाजः, अध, ते, स्याम, ब्रह्म, प्रवादिष्म, तत्, नः, मा, हासीत् //
28. Samrajya Pattabhisheka – साम्राज्यपट्टाऽभिषेकः >>
सम्पूर्ण महान्यास सूचिका पश्यतु ॥