Dashamavara (10th) Rudrabhishekam – दशमवाराभिषेचनम्

॥ दशम वाराभिषेचनम् ॥

एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं नवम वाराभिषेकानन्तरं अन्योन्य सहायेन दशम वाराभिषेकं करिष्यामः ॥

Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम्

ओं गर्भा᳚श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे …

Sri Rudra Chamakam 10th Anuvakam – श्रीरुद्र चमकम् – दशमोऽनुवाकः

ओं नमो भगवते॑ रुद्रा॒य अमृताऽभिषेकोऽस्तु ॥

ओं नमो भगवते॑ रुद्रा॒य अमृताऽभिषेकोऽस्तु ॥

ओं वा॒म॒दे॒वाय॒ नम॑: । स्नानं समर्पयामि ।

ओं ज्ये॒ष्ठाय॒ नम॑: । वस्त्रं समर्पयामि ।

ओं श्रे॒ष्ठाय॒ नम॑: । उपवीतं समर्पयामि ।

ओं रु॒द्राय॒ नम॒: । आभरणानि समर्पयामि ।

ओं काला॑य॒ नम॑: । गन्धं समर्पयामि ।

ओं कल॑विकरणाय॒ नम॑: । अक्षतान् समर्पयामि ।

ओं बल॑ विकरणाय॒ नमः । पुष्पाणि समर्पयामि ।

ओं बला॑य॒ नम॑: । धूपं समर्पयामि ।

ओं बल॑ प्रमथनाय॒ नम॑: । दीपं समर्पयामि ।

ओं सर्व॑भूतदमनाय॒ नम॑: । नैवेद्यं समर्पयामि ।

ओं म॒नोन्म॑नाय॒ नम॑: । ताम्बूलं समर्पयामि ।

ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ उत्तरनीराजनम् समर्पयामि ।

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ मन्त्रपुष्पं समर्पयामि ।

ईशानस्सर्व॑विद्या॒ना॒मीश्वरस्सर्व॑भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ प्रदक्षिणनमस्कारान् समर्पयामि ।

ओं भ॒वाय॑ दे॒वाय॒ नमः ।
ओं श॒र्वाय॑ दे॒वाय॒ नमः ।
ओं ईशा॑नाय दे॒वाय॒ नमः ।
ओं पशु॒पत॑ये दे॒वाय॒ नमः ।
ओं रु॒द्राय॑ दे॒वाय॒ नमः ।
ओं उ॒ग्राय॑ दे॒वाय॒ नमः ।
ओं भी॒माय॑ दे॒वाय॒ नमः ।
ओं मह॑ते दे॒वाय॒ नमः ।
ओं भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।
ओं श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।
ओं ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ नम॑: ।
ओं पशु॒पते᳚र्दे॒वस्य पत्न्यै॒ नम॑: ।
ओं रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।
ओं उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।
ओं भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।
ओं मह॑तो दे॒वस्य॒ पत्न्यै॒ नम॑: ।

भवं देवं तर्पयामि ।
शर्वं देवं तर्पयामि ।
ईशानं देवं तर्पयामि ।
पशुपतिं देवं तर्पयामि ।
रुद्रं देवं तर्पयामि ।
उग्रं देवं तर्पयामि ।
भीमं देवं तर्पयामि ।
महान्तं देवं तर्पयामि ।
– भवस्य देवस्य पत्नीं तर्पयामि ।
– शर्वस्य देवस्य पत्नीं तर्पयामि ।
– ईशानस्य देवस्य पत्नीं तर्पयामि ।
– पशुपतेर्देवस्य पत्नीं तर्पयामि ।
– रुद्रस्य देवस्य पत्नीं तर्पयामि ।
– उग्रस्य देवस्य पत्नीं तर्पयामि ।
– भीमस्य देवस्य पत्नीं तर्पयामि ।
– महतो देवस्य पत्नीं तर्पयामि ।

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

अनेन दशम वाराभिषेकेन भगवान् सर्वात्मकः श्री रुद्रः सुप्रीतस्सुप्रसन्नो वरदो भवतु ॥


Facebook Comments Box