नमस्ते निधनापैतु प्राणानां योरुद्रः पञ्चः ।
प्राच्यां तत्पुरुषं विन्द्यादघोरं दक्षिणामुखं ॥ १
सद्योजातं प्रतीच्यांतु वामदेवमुदन्मुखं ।
ईशानमूर्ध्ववक्त्रंस्याच्छम्भोःपञ्चमुखक्रमः ॥ २
लिङ्गस्याग्नेय भागस्थः प्रागादिमुखमर्चयेत् ।
प्रतीच्यां प्राज्मुखो भक्त्या सद्योजातं समर्चयेत् ॥ ३
वामदेवमघोरंच ततस्ततपुरुषं तथा ।
ईशानमर्चयेदेवं पूजायां भेद उच्यते ॥ ४
अकारश्च इकारश्च उकारेकार ओं कृतिः ।
प्रत्येकंतु ककारादि वर्गैकैक समन्वितं ॥ ५
सानुस्वारंतु विन्यस्य सद्योजातादि पञ्चसु ।
अथवाप्राज्नि रुक्तेन तथाप्रागादिषु क्रमात् ॥ ६
न्यसेत्पञ्चाङ्ग विन्यास इत्युक्तस्सांप्रदायिकः ।
दशाङ्ग रौद्रीकरणे न्यासाङ्ग क्रम उच्यते ॥ ७
ललाटनेत्रकर्णंच मुखबाहुच नाशिका ।
हृन्नाभिरथ मूर्धाच पादौच दशदैहिकं ॥ ८
पुनस्चरौद्रीकरणे विन्यसेत्षोडशाङ्गके ।
शिखायांमस्तकेमूर्ध्नि ललाटेऽक्ष्णोश्चकर्ण योः ॥ ९
मुखेकण्ठेचबाह्वोश्चहृदिनाभौकटौ तथा ।
ऊर्वोर्जान्वोर्जङ्घयोश्चपादयोष्षोडश न्यसेत् ॥ १०
एकोनचत्वारिंशच्च शिवसङ्कल्प उच्यते ।
येनेदं येनकर्माणि येनकर्माण्यप सोयत्प्रज्ञानग्ं सुषारधिर्यस्मिनृचोयदत्र षष्ठंयज्जाग्रतो येनेदं येनद्यौर्येमनोहृदयमचिन्त्यमेकाचमे पङ्च पङ्च वेदाहमेतंयस्त्यतंधीराःपरात्परतरंचैव परात्परतरंब्रह्मयावेदादिषु योवैदेवंप्रयतः प्रणवं योसौगोभिर्जुष्टं त्र्यंबकं कैलास कैलास विश्वतश्चक्षुश्चतुरो वेदान्मानो महान्तं मानस्तोक ऋतुग्ं सत्यं कद्रुद्राय ब्रह्मजज्ञानं यः प्राणतो य आत्मदा यो रुद्रो गन्धद्वारं नमकं चमकं चैव य इदग्ं शिवसंकल्पमेकोन चत्वारिग्ं शत् ॥ ११
साष्टाङ्गं प्रणमेच्छम्भुंब्भक्तिश्रद्धा समन्वितः ।
उरसा शरसा दृष्ट्वामनसावचसातथा ॥ १२
पद्भ्यांकराभ्यांकर्णाभ्यां प्रणामोष्टाङ्ग उच्यते ।
आत्वावहन्त्वित्यावाह्यलिङ्गेशिवशङ्करं ॥ १३
देहोदेवालयःप्रोक्तोजीवोदेवस्सनातनः ।
त्यतेदज्ञान निर्माल्यं सोऽहंभावेन पूजयेत् ॥ १४
हंसं सदाशिवं ध्यायेद्भिम्बेलिङ्गादिविग्रहे ।
अथसंप्रार्थ्य देवेशं सद्योजातादि पञ्चभिः ॥ १५
मन्त्रैष्षोडशधाभक्त्यै षोडशानुपचारकान् ।
आसनादि नमस्कारं पर्यन्तान्परिपूजयेत् ॥ १६
भवायदेवायनमः इति मन्त्राष्टकेचन ।
अष्टमूर्तिं महेशानं तत्पत्नीरपि पूजयेत् ॥ १७
अर्कचम्पकपुन्नागनन्द्यावर्तनिपाटलं ।
बृहतीकरवीराणिद्रोणपुष्पाणिचार्चयेत् ॥ १८
तत्तन्नामानमीशानं तत्पत्नीरपितर्पयेत् ।
एवं यः कुरुतेनित्यं सर्वपापैः प्रमुच्यते ।
सर्वान्कामानवाप्नोरिशिवसायुज्यमाप्नुयात् । इति ॥ १९
Reference : https://archive.org/details/20191224_20191224_0727/mode/1up