Sri Maha Ganapati Laghu Pooja – श्रीमहागणपति लघु षोडशोपचार पूजा

अस्मिन् बिम्बे श्रीमहागणपतिं आवाहयामि, स्थापयामि, पूजयामि ॥

प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒ळया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑: प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
श्री महागणपतये नमः ॥ स्थिरो भव । वरदो भव । सुमुखो भव । सुप्रसन्नो भव । स्थिरासनं कुरु । प्रसीद प्रसीद ।

ध्यानम् –
ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥
अगजानन पद्मार्कं गजाननमहर्निशं ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥

ओं श्रीमहागणपतये नमः ।
ध्यायामि । ध्यानम् समर्पयामि । १ ॥

ओं श्रीमहागणपतये नमः ।
आवाहयामि । आवाहनं समर्पयामि । २ ॥

ओं श्रीमहागणपतये नमः ।
नवरत्नखचित दिव्य हेम सिंहासनं समर्पयामि । ३ ॥

ओं श्रीमहागणपतये नमः ।
पादयोः पाद्यं समर्पयामि । ४ ॥

ओं श्रीमहागणपतये नमः ।
हस्तयोः अर्घ्यं समर्पयामि । ५ ॥

ओं श्रीमहागणपतये नमः ।
मुखे आचमनीयं समर्पयामि । ६ ॥

स्नानम् –
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
ओं श्रीमहागणपतये नमः ।
शुद्धोदक स्नानं समर्पयामि । ७ ॥

स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्रम् –
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥
ओं श्रीमहागणपतये नमः ।
वस्त्रं समर्पयामि । ८ ॥

यज्ञोपवीतम् –
ओं य॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं
प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् ।
आयु॑ष्यमग्र्यं॒ प्र॒ति मु॑ञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेज॑: ॥
ओं श्रीमहागणपतये नमः ।
यज्ञोपवीतार्थं अक्षतान् समर्पयामि । ।

गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
ओं श्रीमहागणपतये नमः ।
दिव्य श्रीगन्धं समर्पयामि । ९ ॥

ओं श्रीमहागणपतये नमः ।
आभरणं समर्पयामि । १० ॥

पुष्प पूजा –
ओं सुमुखाय नमः ।
ओं एकदन्ताय नमः ।
ओं कपिलायनमः ।
ओं गजकर्णकाय नमः ।
ओं लम्बोदरायनमः ।
ओं विकटाय नमः ।
ओं विघ्नराजाय नमः ।
ओं गणाधिपायनमः ।
ओं धूमकेतवे नमः ।
ओं गणाध्यक्षाय नमः ।
ओं फालचन्द्राय नमः ।
ओं गजाननाय नमः ।
ओं वक्रतुण्डाय नमः ।
ओं शूर्पकर्णाय नमः ।
ओं हेरम्बाय नमः ।
ओं स्कन्दपूर्वजाय नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।
ओं श्रीमहागणपतये नमः ।
नानाविध परिमल पत्र पुष्पाणि समर्पयामि । ११ ॥

धूपम् –
वनस्पत्युद्भविर्दिव्यैः नाना गन्धैः सुसम्युतः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ओं श्रीमहागणपतये नमः ।
धूपं आघ्रापयामि । १२ ॥

दीपम् –
साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं प्रियम् ।
गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापह ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां नरकाद्घोरात् दिव्य ज्योतिर्नमोऽस्तु ते ॥
ओं श्रीमहागणपतये नमः ।
प्रत्यक्ष दीपं समर्पयामि । १३ ॥

धूप दीपानन्तरं आचमनीयं समर्पयामि ।

नैवेद्यम् –
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
श्री महागणपतये नमः __________ समर्पयामि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ओं श्रीमहागणपतये नमः ।
नैवेद्यं समर्पयामि । १४ ॥

ताम्बूलम् –
पूगीफलैश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीमहागणपतये नमः ।
ताम्बूलं समर्पयामि । १५ ॥

नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ॥
ओं श्रीमहागणपतये नमः ।
नीराजनं समर्पयामि । १६ ॥

मन्त्रपुष्पम् –
ऎकद॒न्ताय॑ वि॒द्महॆ॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नॊ॑ दन्तिः प्रचॊ॒दया᳚त् ॥
ओं श्रीमहागणपतये नमः ।
सुवर्ण मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिणम् –
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यधा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥
ओं श्रीमहागणपतये नमः ।
प्रदक्षिणा नमस्कारान् समर्पयामि ।

ओं श्रीमहागणपतये नमः ।
छत्र चामरादि समस्त राजोपचारान् समर्पयामि ॥

क्षमाप्रार्थना –
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप ।
यत्पूजितं मयादेव परिपूर्णं तदस्तु ते ॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

समर्पणम् –
अनया ध्यानावाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री महागणपति सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

उत्तरे शुभकर्मण्यविघ्नमस्तु ॥

तीर्थम् –
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्रीमहागणपति पादोदकं पावनं शुभम् ॥
श्री महागणपति प्रसादं शिरसा गृह्णामि ॥

उद्वासनम् –
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥
ओं श्री महागणपति नमः यथास्थानं उद्वासयामि ॥
शोभनार्थे क्षेमाय पुनरागमनाय च ।

ओं शान्तिः शान्तिः शान्तिः ।

1. Panchanga Rudra Nyasam – पञ्चाङ्गरुद्र न्यासः >>


Facebook Comments Box