विधि –
दक्षिणहस्तेन भस्ममादाय, वामहस्ते निक्षिप्य, जलं संप्रोक्ष्य, हस्तद्वयमाच्छाद्य, दक्षिणहस्त अनामिकया वामहस्तोपरि षट्कोणं लिखित्वा, षट्कोण मध्ये ओंकारः अं आं इं ईं उं ऊं सौं, षट्कोणेषु ओं नमः शिवाय इति षड्बीजान् लिखित्वा ॥
ध्यानम् –
भस्म ज्योतिस्वरूपाय शिवाय परमात्मने
षट्त्रिंशत्तत्त्वरूपाय नमः शांताय तेजसे ।
पुनातीदं जगत्सर्वं त्रिपुंड्रात्म सदाशिवं
ऐश्वर्यप्राप्तिरूपाय तस्मै श्री भस्मने नमः ॥ १
भूतिर्भूतिकरी पवित्रजननी पापौघविध्वंसिनी
सर्वोपद्रवनाशिनी प्रियकरी सर्वार्थ संपत्करी ।
भूतप्रेतपिशाचराक्षस-गणारिष्टोपसंहारिणी
तेजोराज्यविभूतिमोक्षणकरी भूतिः सदा धार्यताम् ॥ २
ओं अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वा इदं भस्म मन एतानि चक्षूग्ंषि भस्मानि ॥
धारण मन्त्रम् –
ओं त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒ वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ॥
धारण स्थानानि –
ललाटे, मूर्ध्नि, हृदये, उदरे, बाह्वोः, पार्श्वयोः, कंठौ इत्यादयः धारणं करिष्ये । हस्तद्वयं प्रक्षाळ्य ।
सम्पूर्ण महान्यास सूचिका पश्यतु ॥