Durga Suktam – दुर्गा सूक्तम्

(ऋ.वे.१-९९-१)
जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेद॑: ।
स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥ १

// जात-वेदसे, सुनवाम, सोमं, अराति-यतः, नि, दहाति, वेदः, सः, नः, पर्षत्, अति, दुः-गानि, विश्वा, नावा-इव, सिन्धुं, दुः-इता, अति, अग्निः //

ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् ।
दु॒र्गां दे॒वीग्ं शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नम॑: ॥ २

(ऋ.वे.१-१८९-२)
अग्ने॒ त्वं॑ पा॑रया॒ नव्यो॑ अ॒स्मान्थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः ॥ ३

// अग्ने, त्वं, पारय, नव्यः, अस्मान्, स्वस्ति-भिः, अति, दुः-गानि, विश्वा, पूः, च, पृथ्वी, बहुला, नः, उर्वी, भव, तोकाय, तनयाय, शं, योः //

(ऋ.वे.५-४-९)
विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒: सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्षि ।
अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो᳚ऽस्माकं॑ बोध्यवि॒ता त॒नूना᳚म् ॥ ४

// विश्वानि, नः, दुः-गहा, जातवेदः, सिन्धुं, न, नावा, दुः-इता, अति, पर्षि, अग्ने, अत्रि-वत्, नमसा, गृणानः, अस्माकं, बोधि, अविता, तनूनां //

(अ.वे.७-६३-०-१)
पृ॒त॒ना॒ जित॒ग्ं सह॑मानमु॒ग्रम॒ग्निग्ं हु॑वेम पर॒मात्स॒धस्था᳚त् ।
स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑दुरि॒ताऽत्य॒ग्निः ॥ ५

// पृतना-जितं, सहमानं, अग्निं, (उक्थैः, हवामहे), हुवेम, परमात्, सध-स्थात्, सः, नः, पर्षत्, अति, दुः-गानि, विश्वा, क्षामत्, देवः, अति, दुः-इतानि, अग्निः //

(ऋ.वे.८-११-१०)
प्र॒त्नो हि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चा᳚ऽग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥ ६

// प्रत्नः, हि, कं, ईड्यः, अध्वरेषु, सनत्, च, होता, नव्यः, च, सत्सि, स्वां, च, अग्ने, तन्वं, पिप्रयस्व, अस्मभ्यं, च, सौभगं, आ, यजस्व //

गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र॒ विष्णो॒रनु॒सञ्च॑रेम ।
नाक॑स्य पृ॒ष्ठम॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम् ॥ ७

का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


इतर सूक्तानि पश्यतु ॥


Facebook Comments Box
Exit mobile version