Ganapati Atharvashirsha – गणपत्यथर्वशीर्षोपनिषत्

ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: । व्यशे॑म दे॒वहि॑तं॒ यदायु॑: । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

// भद्रं, कर्णेभिः, शृणुयाम, देवाः, भद्रं, पश्येम, अक्षभिः, यजत्राः, स्थिरैः, रङ्गैः, तुष्टुवां, सः, तनूभिः, व्यशेम, देवहितं, यदायुः, स्वस्ति, नः, इन्द्रः, वृद्धश्रवाः, स्वस्ति, नः, पूषा, विश्ववेदाः, स्वस्ति, नः, तार्क्ष्यो, अरिष्टनेमिः, स्वस्ति, नः, बृहस्पतिः, ददातु //

ओं नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि । त्वमे॒व के॒वलं॒ कर्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्ता॑ऽसि । त्वमे॒व के॒वलं॒ हर्ता॑ऽसि । त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ १ ॥

// ओं, नमः, ते, गणपतये, त्वं, एव, प्रत्यक्षं, तत्त्वं, असि, त्वं, एव, केवलं, कर्ता, असि, त्वं, एव, केवलं, धर्ता, असि, त्वं, एव, हर्ता, असि, त्वं, एव, सर्वं, खलु, इदं, ब्रह्मा, असि, त्वं, साक्षात्, आत्मा, असि, नित्यं //

ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ २ ॥

// ऋतं, वच्मि, सत्यं, वच्मि //

अव॑ त्वं॒ माम् । अव॑ व॒क्तारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ । अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् । अव॑ दक्षि॒णात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् । सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३ ॥

// अव, त्वं, मां, अव, वक्तारं, अव, श्रोत्रारं, अव, दातारं, अव, धातारं, अव, अनूचानं, अव, शिष्यं, अव, पश्चात्तात्, अव, पुरस्तात्, अव, उत्तरात्तात्, अव, दक्षिणात्तत्, अव, च, ऊर्ध्वात्तात्, अव, अधरात्तत्, सर्वतः, मां, पाहि, पाहि, समन्तात् //

त्वं वाङ्मय॑स्त्वं चिन्म॒यः । त्वं आनन्दमय॑स्त्वं ब्रह्म॒मयः । त्वं सच्चिदानन्दाद्वि॑तीयो॒ऽसि । त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४ ॥

// त्वं, वाङ्मयः, त्वं, चिन्मयः, त्वं, आनन्दमयः, त्वं, ब्रह्ममयः, त्वं, सत्, चित्, आनन्द, अद्वितीयः, असि, त्वं, प्रत्यक्षं, ब्रह्मा, असि, त्वं, ज्ञानमयः, वि-ज्ञानमयः, असि //

सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति । सर्वं जगदिदं त्वयि लय॑मेष्य॒ति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति । त्वं भूमिरापोऽनलोऽनि॑लो न॒भः । त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५ ॥

// सर्वं, जगत्, इदं, त्वत्तो, जायते, सर्वं, जगत्, इदं, त्वत्तः, तिष्ठति, सर्वं, जगत्, इदं, त्वयि, लयमेष्यति, सर्वं, जगत्, इदं, त्वयि, प्रत्येति, त्वं, भूमिः, आपः, अनलः, अनिलः, नभः, त्वं, चत्वारि, वाक्-पदानि //

त्वं गु॒णत्र॑याती॒तः । त्वमवस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः । त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः । त्वां योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ ६ ॥

// त्वं, गुण-त्रय, अतीतः, त्वं, अवस्था-त्रय, अतीतः, त्वं, देह-त्रय, अतीतः, त्वं, काल-त्रय, अतीतः, त्वं, मूलाधार-स्थितः, असि, नित्यं, त्वं, शक्ति-त्रय-आत्मकः, त्वां, योगिनः, ध्यायन्ति, नित्यं, त्वं, ब्रह्मा, त्वं, विष्णुः, त्वं, रुद्रः, त्वं, इन्द्रः, त्वं, अग्निः, त्वं, वायुः, त्वं, सूर्यः, त्वं, चन्द्रमाः, त्वं, ब्रह्म, भूः, भुवः, सुवः, ओं //

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं᳚स्तदन॒न्त॑रम् । अनुस्वारः प॑रत॒रः । अर्धे᳚न्दुल॒सितम् । तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् । गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् । अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नाद॑: सन्धा॒नम् । सग्ंहि॑ता स॒न्धिः । सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्रीच्छ॒न्दः । गणपति॑र्देव॒ता । ओं गं गणपतये॒ नम॑: ॥ ७ ॥

// गणादिं, पूर्वं, उच्चार्य, वर्णादीन्, तत्, अनन्तरं, अनुस्वारः, परतरः, अर्ध, इन्दु, लसितं, तारेण, ऋद्धं, एतत्, तव, मनुः, स्वरूपं, ग-कारः, पूर्व-रूपं, अ-कारः, मध्यम-रूपं, अनुस्वारः, च, अन्त्य-रूपं, बिन्दुः, उत्तर-रूपं, नादः, सन्धानं, संहिता-सन्धिः, स, एषा, गणेश-विद्या, गणक ऋषिः, निचृत्-गायत्री, छन्दः, गणपतिः, देवता, ओं, गं, गणपतये, नमः //

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८ ॥

// एक-दन्ताय, विद्महे, वक्र-तुण्डाय, धीमहि, तत्, नः, दन्तिः, प्र-चोदयात् //

एकद॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒ धारि॑णम् । रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् । रक्तं॑ लं॒बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् । रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् । भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् । आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृते᳚: पुरु॒षात्प॑रम् । एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९ ॥

// एक-दन्तं, चतुः-हस्तं, पाशं, अङ्कुश, धारिणं, रदं, च, वरदं, हस्तैः, बिभ्राणं, मूषक-ध्वजं, रक्तं, लम्बोदरं, शूर्पकर्णकं, रक्त-वाससं, रक्त-गन्ध, अनु-लिप्ताङ्गं, रक्त-पुष्पैः, सु-पूजितं, भक्त, अनु-कम्पिनं, देवं, जगत्-कारणं, अच्युतं, आविर्भूतं, च, सृष्टि, आदौ, प्रकृतेः, पुरुषात्, परं, एवं, ध्यायन्ति, यः, नित्यं, सः, योगी, योगिनां, वरः //

नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॑ नमो॒ नम॑: ॥ १० ॥

// नमः, व्रात-पतये, नमः, गण-पतये, नमः, प्रमथ-पतये, नमः, ते, अस्तु, लम्ब-उदराय, एक-दन्ताय, विघ्न-विनाशिने, शिव-सुताय, श्रीवरद-मूर्तये, नमः, नमः //

एतदथर्वशीर्षं॑ योऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नै᳚र्न बा॒ध्यते । स सर्वत्र सुख॑मेध॒ते । स पञ्चमहापापा᳚त् प्रमु॒च्यते । सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति । सायं प्रातः प्र॑युञ्जा॒नो॒ पापोऽपा॑पो भ॒वति । सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति । धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् । यो यदि मो॑हाद्दा॒स्यति । स पापी॑यान् भ॒वति । सहस्रावर्तनाद्यं यं काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ ११ ॥

// एतत्, अथर्वशीर्षं, यः, अधीते, स, ब्रह्मभूयाय, कल्पते, स, सर्व-विघ्नैः, न, बाध्यते, स, सर्वत्र, सुखं, एधते, स, पञ्च-महा-पापात्, प्र-मुच्यते, सायं, अधीयानः, दिवस-कृतं, पापं, नाशयति, प्रातः, अधीयानः, रात्रि-कृतं, पापं, नाशयति, सायं, प्रातः, प्र-युञ्जानः, पापः, अपापः, भवति, सर्वत्र, अधीयानः, अप-विघ्नः, भवति, धर्म, अर्थ, काम, मोक्षं, च, विन्दति, इदं, अथर्वशीर्षं, अशिष्याय, न, देयं, यः, यदि, मोहात्, दास्यति, स, पापीयान्, भवति, सहस्र, आवर्तनात्, यं, यं, कामं, अधीते, तं, तं, अनेन, साधयेत् //

अनेन गणपतिम॑भिषि॒ञ्चति । स वा॑ग्मी भ॒वति । चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति । इत्यथर्व॑ण वा॒क्यम् । ब्रह्माद्या॒वर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ १२ ॥

// अनेन, गणपतिं, अभि-सिञ्चति, स, वाग्मी, भवति, चतुर्थ्यां, अनश्नन्, जपति, स, विद्यावान्, भवति, इति, अथर्वण, वाक्यं, ब्रहादि, आवरणं, विद्यात्, न, बिभेति, कदाचन, इति //

यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति । यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति । यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ॥ १३ ॥

// यः, दूर्व-अङ्कुरैः, यजति, स, वैश्रवणः, उपमः, भवति, यः, लाजैः, यजति, स, यशोवान्, भवति, स, मेधावान्, भवति, यः, मोदक-सहस्रेण, यजति, स, वाञ्चित-फलं, अवाप्नोति, यः, स-आज्य, समित्-भिः, यजति, स, सर्वं, लभते, स, सर्वं, लभते //

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति । सूर्यग्रहे म॑हान॒द्यां प्रतिमा सन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति । महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते । महाप्रत्यवाया᳚त् प्रमु॒च्यते । स सर्वविद्भवति स सर्व॑विद्भ॒वति । य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ १४ ॥

// अष्टौ, ब्राह्मणान्, सम्यक्, ग्राहयित्वा, सूर्य-वर्चस्वी, भवति, सूर्य-ग्रहे, महानद्यां, प्रतिमा, सन्निधौ, वा, जप्त्वा, सिद्ध-मन्त्रो, भवति, महा-विघ्नात्, प्र-मुच्यते, महा-दोषात्, प्र-मुच्यते, महा-प्रत्यवायात्, प्र-मुच्यते, स, सर्ववित्, भवति, स, सर्ववित्, भवति, य, एवं, वेद, इति, उपनिषत् //

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: । व्यशे॑म दे॒वहि॑तं॒ यदायु॑: । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


इतर सूक्तानि पश्यतु ॥


Facebook Comments Box
Exit mobile version