हरिः ओम् ॥
अथातःपञ्चाङ्गरुद्राणां न्यासपूर्वकम्जपहोमार्चनाऽभिषेक विधिं व्याख्यास्यामो यातेरुद्रेति शिखाया मस्मिन्महत्यर्णव इतिशिरसि सहस्राणीतिललाटे, हग्ं सश्सुचिषदिति भ्रुवोर्मध्ये, त्रयम्बकम्यजामह इतिनेत्रयो, र्नमस्स्रुत्या येति कर्णयो, र्मानस्तोक इतिनासिकाया, मवतत्येति मुखे, नीलग्रीवौद्वौकण्ठे, समस्ते अस्त्वायुधायेति बाह्वो, र्याते हेतिरित्युपबाह्वोः, परिणोरुद्रस्यहेतिरिति मणिबन्धयो, र्येतीर्थानीतिच हस्तयो, स्सद्योजातमिति पञ्चानुवाकान्, पञ्चस्वङ्गुलीषु विन्यस्य, नमोवःकिरिकेभ्य इति हृदये, नमो गणेभ्य इतिपृष्ठे, नमस्तक्षद्ब्य इति कक्षयोर्नमो हिरण्य बाहव इतिपार्श्वयोर्विज्यं धनुरितिजठरे हिरण्यगर्भ इति नाभौ मीढुष्टम इति कट्यां येभूतानामधिपतय इति गुह्ये येअन्नेष्वित्यण्डयो स्सशिराजातवेदा इत्य पाने मनोमहान्तमित्यूर्वो रेषतेरुद्रभाग इतिजान्वोस्सग्ं सृष्टजिदिति जङ्घयो र्विश्वम्भूतमिति गुल्फयो र्येपधामिति पादयो रध्यवो चदितिकवचं नमोबिल्मिनेत्युप कवचं नमो अस्तु नीलग्रीवायेति तृतीय नेत्रम् ।
प्रमुञ्चधन्वन इत्यस्त्रम् । य एतावन्तश्चेति दिग्भन्धः ॥
ओं नमोभगवते रुद्रायेति नमस्कारं न्यसेत् ।
ओङ्कारं मूर्द्निविन्यस्य नकारं नाशिकाग्रतः ।
मोकारन्तु ललाटेवै भकारं मुखमध्यतः ।
गकारं कण्ठदेशेतु वकारं हृदिविन्यसेत् ।
तेकारं दक्षिणेहस्ते रुकारं वामतो न्यसेत् ।
द्राकारं नाभिदेशेतु यकारं पादयोर्न्यसेत् ॥
सद्यश्च पादयोर्न्यस्यवामस्योरुमध्यतः ।
अघोरं हृदिविन्यस्य मुखेतत्पुरुषं न्यसेत्।
ईशानंमूर्द्निविन्यस्य हंसोनाम सदाशिवः ।
हंसहंसेतियो ब्रूयाद्धंसोनाम सदाशिवः ।
एवंन्यासविधिङ्कृत्वा ततस्सम्पुट मारभेत् ॥
त्रातारमिन्द्रं त्वंन्नोअग्ने सुगन्नः पन्धा मसुन्वन्तम् तत्वायाम्यानो नियुद्बिर्वयग्ंसोम तमीशान मन्मैरुद्रा स्योनापृधिवीत्ये तत्सम्पुट मिन्द्रादीन् दिक्षुविन्यस्य एवमेवात्मनि दशाङ्गरौद्री करणं कृत्वा ॥
ललाटंनेत्र कर्णौचमुखेबाह्वोश्च नासिके ॥
हृदयंनाभिमूर्द्नाच पादौच दश देहगाः ॥
विभूरसि प्रवहणो वह्निरसि हव्यवाहन श्श्वात्रोसिप्रचेतास्तुथोसि विश्वेवेदा उशिगसिकविरङ्घारि रशि बम्भारि रवस्युरसिदुव स्वाञ्च्छुन्ध्यूरसिमार्जालीयस्स म्राडसि कृशानुः परिषद्योसिपमानः प्रतक्वासिनभस्वानसं मृष्टोसिहव्य सूदऋतधामसि सुवर्ज्योतिर् ब्रह्मज्योतिरसि सुवर्थामाजोस्येकपादहिरसि बुध्नि योरौद्रेणानीकेन पाहिमाग्नेपि पृहिमाम महिग्ंसीः ॥
शिखाशिरश्चमूर्दाच ललाटं नेत्र कर्णकौ ।
मुखञ्च कण्ठ बाहूचहृन्ना भीचकटिस्तधा ॥
ऊरूजानू जङ्घपादौ षोडशाङ्घस्य लक्षणम् ॥
एवं षोडशाङ्ग रौद्री करणं कृत्वा ॥
त्वगस्थिग तैस्सर्व पापैः प्रमुच्यते ।
सर्वभूतेष्वपराजितो भवति ।
ततोभूत प्रेतपिशाच बद्ध ब्रह्मराक्षस यक्षयमदूत शाकिनीडाकिनीहाकिनी शत्रु सर्पश्वापद तस्करज्वद्युप्रदवज उपघातास्सर्वे ज्वलन्तम्पश्यन्तु मां रक्षन्तु यजमानग्ं रक्षन्तु ॥
मनोज्योतिर बोध्यग्निरग्नि र्मूर्धा मूर्धानंमर्माणितेजात वेद इतिगुह्य नाभि हृदयकण्ठ मुखशिरस्स्याऽत्मरक्षाकर्तव्या ॥
शिवसङ्कल्पग्ं हृदयं –
येनेदं येनकर्माणि येनकर्माण्यपसो यत्र्प ज्ञनग्ं सुषारधिर्यस्मिन्नृस्साम यदत्रषष्ठं यज्जाग्रतो येनेदं येनद्यौर्ये मनोहृदय मञ्चित्ये मेकाचय पञ्चपञ्चा वेदाहं यस्यै तं धीराः परात्परतरञ्चैव परात्परतरम्ब्रह्म यावेदादिषु योवैदेवं प्रयतो योसौगोभिर्जुष्टन्धनेन त्र्यम्बकं कैलासशिखरे कैलासशिखरा विश्वतश्चक्षु श्चतुरो वेदान्मानो महान्तं मानस्तोके ऋतग्ं सत्यङ्कद्रुद्रायब्रह्म जज्ञानं यःप्राणतोय आत्मदायोरुद्रो अग्नौ गन्ध द्वारां नमकञ्चमकञ्चैव इदग्ं शिवसङ्कल्प मष्टात्रिग्ं शत्पुरुष सूक्तग्ं शिरः उत्तर नारायणग्ं शिखा ।
अशुश्शिशानोऽप्रतिरथं कवचं प्रतिपूरुषं प्रतिपूरुषं विभ्राडितिनेत्रत्रयन्त्वमग्ने त्वमग्ने शत रुद्रीय मित्यस्त्रम् ।
एवं पञ्चाङ्गग्ं सकृज्जपेत् ।
अष्टाङ्गं प्रणम्य ।
हिरण्य गर्भोयः प्राणतो ब्रह्मजज्ञानं महीद्यौरुपश्वासययाते अग्नेग्नेनय इमम्यम प्रस्तरमित्यष्टाङ्गं प्रणम्य उरसाशिरसादृष्ट्या मनसावचसा तधा पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्ग उच्यते ।
अधात्मानग्ं शिवात्मानग्ं श्रीरुद्ररूपिणन्ध्यायेत् ।
शुद्धस्पटिक सङ्काशं त्रिनेत्रं पञ्चवक्त्रं दशभुजग्ं सर्वाभरणभूषितं नीलग्रीवं शशाङ्कचिह्नं नागयज्ञोपवीतिनं नागाभरणभूषितंव्याघ्र चर्माम्बरधरं कमण्डल्वक्ष सूत्रधरं अभयवर प्रदंशूलहस्तञ्ज्वलन्तं कपिल जटाजूटिनं शिखामुध्योतधारिणम् ॥
वृषस्कन्ध समारूढ मुमादेहार्थ धारिणम् ।
अमृतेनाप्लुतंहृष्टं दिव्यभोग समन्वितम् ।
दिग्देवतासमायुक्तं सुरासुर नमस्कृतम् ।
नित्यञ्चशाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ।
सर्वव्यापिनमीशानं रुद्रं वैविश्वरूपिणम् ।
एवग्ं रूपिणमेवन्ध्यात्वा द्विजस्सम्यक्ततो देवयजनमारभेत् ।
अथातोरुद्रस्नार्च नाभिषेक विधिं व्याख्यास्यामोदित एवतीर्थेस्नात्वो देत्यशुचिः प्रयतो ब्रह्मचारी शुक्लवासास्त स्यदक्षिणा प्रत्यग्दे
शेतन्मुखंस्थित्वाऽत्मनि देवतास्थ्सापयेत् ॥
प्रजनने ब्रह्मातिष्ठतु ।
पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु ।
बाह्वोरिन्द्र स्तिष्ठतु।
हृदये शिवस्तिष्ठतु ।
कण्ठेवसवस्तिष्ठन्तु ।
वक्त्रे सरस्वती तिष्ठतु ।
नासिक योर्वायुस्तिष्ठतु ।
नयनयोश्चन्द्रा दित्यौ तिष्ठेताम् ।
कर्णयो रश्विनौतिष्ठेताम् ।
ललाटेरुद्रास्तिष्ठन्तु ।
मूर्ध्न्यादित्यास्तिष्ठन्तु ।
शिरशिमाहादेवस्तिष्ठतु ।
शिखायां वामदेवस्तिष्ठतु ।
पृष्ठेपिनाकी तिष्ठतु ।
पुरतश्शूलीतिष्ठतु ।
पार्श्वयोश्शिवाशङ्करौतिष्ठेताम् ।
सर्वतोवायुस्तिष्ठतु ।
ततोबहिस्सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु ।
सर्वेष्वङ्गेषु सर्वदेवता यथास्थानं तिष्ठन्तु ।
मांरक्षन्तु यजमानग्ं रक्षन्तु ॥
अग्निर्मेवाचिश्रित इत्याधालिङ्ग मङ्गानिसंमृश्य ।
अधव्याहृतिभिर्निर्माल्यं विशृज्य ।
ततोदक्षिण पार्श्वस्थ कलशोदकं कलशग्ंसम्पूज्य ।
गन्धपुष्पाक्षतैरभ्यर्च्य ।
अथैनं गन्धाक्षत पत्र पुष्प धूप दीपनैवेद्य ताम्बूलैरभ्यर्च्याऽत्मानं प्रत्याराधयेत् ।
अथ आत्वावहन्तीत्यावाह्य ।
त्र्यम्बकमितिस्थापन मुद्रां दर्शयित्वा ।
सद्योजात मित्यावाहनं ददाति ।
सद्योजातायवैनमोनम इत्यासनम् ॥
भवेभवेनेतिपाद्यं अतिभवेभवस्त्वमा मित्यर्घ्यं भवोद्बवाय नम इत्याचमनन्ददाति ।
वाम देवायमन इति स्नानन्ददाति ।
ज्येष्ठायनम इति वस्त्रन्ददाति ।
श्रेष्ठायनमः इत्युपवीतं ददाति ।
रुद्रायनमः इत्याभरणं ददाति ।
कालायनमः इति गन्धं ददाति ।
कलविकरणाय नमः इत्यक्षतान् ददाति ।
बलविकरणाय नमः इतिपुष्पन्ददाति ।
बलायनमः इति धूपन्ददाति ।
बलप्रमथनाय नमः इति दीपन्ददाति ।
सर्वभूतदमनाय नमः इति नैवेद्यन्ददाति ।
मनोन्मनाय नमः इति ताम्बूलं ददाति ।
अघोरेभ्य इत्युत्तरनीराजनं ददाति ।
तत्पुरुषाय नमः इति मन्त्रपुष्पं ददाति ।
ईशानायनमः इति प्रदक्षिण नमस्कारान्समर्पयामि ॥
अथा स्याष्टभिर्मन्त्रै रुष्टौ पुष्पाणि ददाति तर्पयतिच ॥
अर्क चम्पक पुन्नाग नन्द्या वर्तञ्च पाटलम् ।
बृहतीकरवीराणी द्रोण पुष्पाणिचार्चयेत् ॥
भवायदेवाय नमः ।
शर्वायदेवाय नमः ।
ईशानयदेवाय नमः ।
पशुपतयेदेवाय नमः ।
रुद्रायदेवाय नमः ।
उग्रायदेवाय नमः ।
भीमायदेवाय नमः ।
महतेदेवाय नमः ।
भवस्य देवस्ये पत्न्यैनमः ।
शर्वस्य देवस्ये पत्न्यैनमः ।
ईशानस्य देवस्ये पत्न्यैनमः ।
पशुपतेर्देवस्य पपत्न्यैनमः ।
रुद्रसदेवस्य पपत्न्यैनमः ।
उग्रस्यदेवस्य पपत्न्यैनमः ।
भीमस्यदेवस्य पपत्न्यैनमः ।
महतोदेवस्य पपत्न्यैनमः ।
अथास्याष्टभिर्नामभिर्गन्थ पुष्पाक्षत सहिताभिरद्भिस्तर्पयित्वा ॥
भवं देवं तर्पयामि ।
शर्वं देवं तर्पयामि ।
ईशानं देवं तर्पयामि ।
पशुपतिं देवं तर्पयामि ।
रुद्रं देवं तर्पयामि ।
उग्रं देवं तर्पयामि ।
भीमं देवं तर्पयामि ।
महान्तं देवं तर्पयामि ।
भवस्य देवस्य पत्नीं तत्पयामितर्पयामि ।
शर्वस्य देवस्य पत्नीं तत्पयामितर्पयामि ।
ईशानदेवस्य पत्नीं तर्पयामि तर्पयामि ।
पशुपतेर्थेवस्य पत्नीं तर्पयामि तर्पयामि ।
रुद्रस्य देवस्य पत्नीं तर्पयामि तर्पयामि ।
उग्रस्य देवस्य पत्नीं तर्पयामि तर्पयामि ।
भीमस्य देवस्य पत्नीं तर्पयामि तर्पयामि ।
महतोदेवस्य पत्नीं तर्पयामि तर्पयामि ।
इति तर्पयित्वा ॥
ततः अघोरेभस्तुत्पुरुषायेतिरुद्र गायत्रीं जपेत् ।
दशकृत्वश्शतकृत्व स्सहस्रकृत्वोऽपरिमित कृत्वोवा दशवारमथैन माशिषमाशास्ते अथैतस्य मूर्थ्नि हिराण्यकलशोदकेन सन्ततधारा अभिषञ्चन् पयसासर्पिषादद्ना मधुनाशर्करेण चेक्षुरसेनाम्ररसेन नारिकेलसलिलेन पुष्पोदकेन फलोदकेन गन्धोदकेन कुशोदकेनच तदलाभे शुद्धोदकेनवा आदौशञ्चम इत्यनुवाकं नमस्ते रुद्र मन्यव इत्ये कादशानुवाकान् अग्नाविष्णू सजोषसेत्येका दशानुवाकानामेक मेकं जपेत् ।
प्राणानां ग्रन्थिरसीति चतुर्भिनुवाकन्त्व मग्ने रुद्र स्त्वमग्ने रुद्रः प्रतिपूरुषं प्रति पूरुषं रुद्रोवा एषरुद्रोवा एष आशुश्शिशानस्तेषा मसुराणाग्ं सुवर्णं घर्मग्ं सुवर्गायत्र यमसौत्रयं इन्द्रस्यवज्रोसिवसोर्थाराग्ं सहस्र शीर्षाऽद्भ्यस्सम्भूतो भद्रङ्कर्णेभिरिति दशशान्तिं पठित्वा
अणोरणीयानिति प्रश्नान्तं जपित्वा ।
इति शतानुवाकान् पञ्चकाठकान् जपित्वा ॥
सर्वेषां वारे वारे पुनराराधन मुत्तमाराधनम् ।
सदागृही पापक्षयकर्थी व्याधिनाशनार्थी जीवितार्थी पुतार्थी काम्यार्थीच कुर्वीत श्रीकाम श्शान्तिकामः पुष्टिकामस्तुष्टि कामः प्रज्ञकामो मेधाकाम आयुष्यकाम आरोग्यकामोऽन्नाद्यकामोवा एवं कुर्वन्नाचार्याय दक्षिणञ्चद द्याद्दशगाव स्सवत्सा स्सपयसस्स्वर्ण शृङ्गोरौप्य खुरामौक्तिक वालास्तदभाव एकाङ्गां दद्यादेकाश ब्रह्मणान् भोजये दश्वमेध क्रतुसहस्र फलमवाप्नोतीत्याह भगवान् बोधयनः ॥
एवं यःकुरुते नित्यं सर्वपापैः प्रमुच्यते ।
सर्वान्कामानवाप्नोति शिवसायुज्यमाप्नुयात् ॥
इति न्यासखण्डः ॥