Manyu Suktam – मन्यु सूक्तम्

(ऋ.वे.१०.८३.१)
यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १

// यः, ते, मन्यो, अविधत्, वज्र, सायक, सहः, ओजः, पुष्यति, विश्वं, आनुषक्, साह्याम, दासं, आर्यं, त्वया, युजा, सहः कृतेन, सहसा, सहस्वता //

म॒न्युरिन्द्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे᳚दाः ।
म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषा᳚: ॥ २

// मन्युः, इन्द्रः, मन्युः, एव, आस, देवः, मन्युः, होता, वरुणः, जात-वेदाः, मन्युं, विशः, ईळते, मानुषीः, याः, पाहि, नः, मन्यो, तपसा, स-जोषाः //

अभी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू᳚न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं न॑: ॥ ३

// अभि, इहि, मन्यो, तवसः, तवीयान्, तपसा, युजा, वि, जहि, शत्रून्, अमित्र-हा, वृत्र-हा, दस्यु-हा, च, विश्वा, वसूनि, आ, भर, त्वं, नः //

त्वं हि म᳚न्यो अ॒भिभू᳚त्योजाः स्वयं॒भूर्भामो᳚ अभिमातिषा॒हः ।
वि॒श्वच॑र्षणि॒: सहु॑रि॒: सहा᳚वान॒स्मास्वोज॒: पृत॑नासु धेहि ॥ ४

// त्वं हि, मन्यो, अभिभूति-ओजाः, स्वयं-भूः, भामः, अभिमाति-सहः, विश्व-चर्षणिः, सहुरिः, सहावान्, अस्मासु, ओजः, पृतनासु, धेहि //

अ॒भा॒गः सन्नप॒ परे᳚तो अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य॑ प्रचेतः ।
तं त्वा᳚ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया᳚य॒ मेहि॑ ॥ ५

// अभागः, सन्, अप, परा-इतः, अस्मि, तव, क्रत्वा, तविषस्य, प्र-चेतः, तं, त्वा, मन्यो, अक्रतुः, जिहीळ, अहं, स्वा, तनुः, बल-देयाय, मा, आ, इहि //

अ॒यं ते᳚ अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः ।
मन्यो᳚ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना᳚व॒ दस्यूं᳚रु॒त बो᳚ध्या॒पेः ॥ ६

// अयं ते, अस्मि, उप, मा, आ, इहि, अर्वाङ्, प्रतीचीनः, सहुरे, विश्व-धायः, मन्यो, वज्रिन्, अभि, मां, आ, ववृत्स्व, हनाव, दस्यून्, उत, बोधि, आपेः //

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा᳚ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥ ७

// अभि, प्र, इहि, दक्षिणतः, भव, मे, अध, वृत्राणि, जङ्घनाव, भूरि, जुहोमि, ते, धरुणं, मध्वः, अग्रं, उभौ, उप-अंशुः, प्रथमा, पिबाव //

(ऋ.वे.१०.८४.१)

त्वया᳚ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा᳚ना अ॒भि प्र य᳚न्तु॒ नरो᳚ अ॒ग्निरू᳚पाः ॥ ८

// त्वया, मन्यो, स-रथं, आ-रुजन्तः, हर्षमानासः, धृषिताः, मरुत्वः, तिग्म-इषवः, आयुधा, सं-शिशानाः, अभि, प्र, यन्तु, नरः, अग्नि-रूपाः //

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्न॑: सहुरे हू॒त ए᳚धि ।
ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा᳚नो॒ वि मृधो᳚ नुदस्व ॥ ९

// अग्निः, इव, मन्यो, त्विषितः, सहस्व, सेना-नीः, नः, सहुरे, हूत, एधि, हत्वाय, शत्रून्, वि, भजस्व, वेदः, ओजः, मिमानः, वि, मृधः, नुदस्व //

सह॑स्व मन्यो अ॒भिमा᳚तिम॒स्मे रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रून्॑ ।
उ॒ग्रं ते॒ पाजो᳚ न॒न्वा रु॑रुध्रे व॒शी वशन्᳚ नयस एकज॒ त्वम् ॥ १०

// सहस्व, मन्यो, अभि-मातिं, अस्मे, रुजन्, मृणन्, प्र-मृणन्, प्र, इहि, शत्रून्, उग्रं, ते, पाजः, ननु, आ, रुरुध्रे, वशी, वशं, नयसे, एक-ज, त्वं //

एको᳚ बहू॒नाम॑सि मन्यवीळि॒तो विशं᳚विशं यु॒धये॒ सं शि॑शाधि ।
अकृ॑त्तरु॒क्त्वया᳚ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं᳚ विज॒याय॑ कृण्महे ॥ ११

// एकः, बहूनां, असि, मन्यो, ईळितः, विशं-विशं, युधये, सं, शिशाधि, अकृत्त-रुक्, त्वया, युजा, वयं, द्यु-मन्तं, घोषं, वि-जयाय, कृण्महे //

वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒(३॒)ऽस्माकं᳚ मन्यो अधि॒पा भ॑वे॒ह ।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥ १२

// विजेष-कृत्, इन्द्रः, इव, अनव-ब्रवः, अस्माकं, मन्यो, अधि-पाः, भव, इह, प्रियं, ते, नाम, सहुरे, गृणीमसि, विद्म, तं, उत्सं, यतः, आ-बभूथ //

आभू᳚त्या सह॒जा व॑ज्र सायक॒ सहो᳚ बिभर्ष्यभिभूत॒ उत्त॑रम् ।
क्रत्वा᳚ नो मन्यो स॒ह मे॒द्ये᳚धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥ १३

// आ-भूत्या, सह-जाः, वज्र, सायक, सहः, बिभर्षि, अभि-भूते, उत्-तरं, क्रत्वा, नः, मन्यो, सह, मेदि, एधि, महा-घनस्य, पुरु-हूतः, सं-सृजि //

संसृ॑ष्टं॒ धन॑मु॒भयं᳚ स॒माकृ॑तम॒स्मभ्यं᳚ दत्तां॒ वरु॑णश्च म॒न्युः ।
भियं॒ दधा᳚ना॒ हृद॑येषु॒ शत्र॑व॒: परा᳚जितासो॒ अप॒ नि ल॑यन्ताम् ॥ १४

// सं-सृष्टं, धनं, उभयं, सं-आकृतं, अस्मभ्यं, दत्तां, वरुणः, च, मन्युः, भियं, दधानाः, हृदयेषु, शत्रवः, परा-जितासः, अप, नि, लयन्तां //

(तै.सं.४-६-६-२७)
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो᳚ जयेम ।
धनुः शत्रो᳚रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वा᳚: प्र॒दिशो᳚ जयेम ॥ १५

// धन्वना, गाः, धन्वना, आजिं, जयेम, धन्वना, तीव्राः, स-मदः, जयेम, धनुः, शत्रोः, अप-क्रामं, कृणोति, धन्वना, सर्वाः, प्र-दिशः, जयेम //

– शान्तिपाठः –

शान्ता᳚ पृथि॒वी शि॒वम॒न्तरि॑क्षं॒ द्यौर्नो॒᳚देव्यभ॑यन्नो अस्तु ।
शि॒वा॒ दिश॑: प्र॒दिश॑ उ॒द्दिशो᳚ न॒ आपो᳚ वि॒श्वत॒: परि॑पांतु स॒र्वत॒: शान्ति॒: शान्ति॒: शान्ति॑: ।

Durga Suktam – दुर्गा सूक्तम् >>


<< Ekadasa Vara Rudrabhishekam – एकादश वाराभिषेचनम्


इतर सूक्तानि पश्यतु ॥


Notes:

Manyu means temper. The quality of temper is also related to Sri Rudra, so this suktam can be recited during Rudra Abhisheka. This suktam creates thunder in enemies. Bhima chanted this suktam for Narasimha swamy and asked power to destroy Kauravas. Narasimha devotees chant this suktam for victory over enemies and for health benefits and also to get courage to face situations. As per Parasara samhita, this suktam is also used for Hanuman.


Facebook Comments Box
Exit mobile version