Sri Rudra Chamakam 11th Anuvakam – श्रीरुद्र चमकम् – एकादशोऽनुवाकम्

<< दशमोऽनुवाकः

एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒, एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒, एक॑विग्ंशतिश्च मे॒ त्रयो॑विग्ंशतिश्च मे॒ पञ्च॑विग्ंशतिश्च मे स॒प्तविग्ं॑शतिश्च मे॒ नव॑विग्ंशतिश्च म॒, एक॑त्रिग्ंशच्च मे॒ त्रय॑स्त्रिग्ंशच्च मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विग्ंश॒तिश्च॑ मे॒ चतु॑र्विग्ंशतिश्च मे॒ऽष्टाविग्ं॑शतिश्च मे॒ द्वात्रिग्ं॑शच्च मे॒ षट्त्रिग्ं॑शच्च मे चत्वारि॒ग्ं॒शच्च॑ मे॒ चतु॑श्चत्वारिग्ंशच्च मे॒ऽष्टाच॑त्वारिग्ंशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्ञि॑यश्चाऽऽन्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च ॥ ११ ॥

// एका, च, मे, त्रिस्रः, पञ्च, सप्त, नव, एकादश, त्रयः-दश, पञ्च-दश, सप्त-दश, नव-दश, एक-विंशति, त्रयः-विंशतिः, पञ्च-विंशतिः, सप्त-विंशतिः, नव-विंशतिः, एक-त्रिंशत्, त्रयः-त्रिंशत्, चतस्रः, अष्टौ, द्वादश, षोडश, विंशतिः, चतुः-विंशति, अष्टा-विंशतिः, द्वात्रिंशत्, षट्-त्रिंशत्, चत्वारिंशत्, चतुः-चत्वारिंशत्, अष्टा-चत्वारिंशत्, वाजः, प्र-सवः, अपि-जः, क्रतुः, सुवः, मूर्धा, वि-अश्ञियः, आन्त्यायनः, अन्त्यः, भौवनः, भुवनः, अधि-पतिः, च //

– शान्तिपाठः –

इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शग्ंसिष॒द्विश्वे॑ दे॒वाः सू᳚क्त॒वाच॒: पृथि॑वि मात॒र्मा मा॑ हिग्ंसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासग्ं शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑ मदन्तु ॥

// इडा, देवहूः, मनुः, यज्ञनीः, बृहस्पतिः, उक्थामदानि, शंसिषत्, विश्वे, देवाः, सूक्तवाचः, पृथिवि, मातः, मा, हिंसीः, मधु, मनिष्ये, मधु जनिष्ये, मधु, वक्ष्यामि, मधु, वदिष्यामि, मधुमतीम्, देवेभ्यः, वाचम्, उद्यासम्, शुश्रूषेण्याम्, मनुष्येभ्यः, तम्, मा, देवाः, अवन्तु, शोभये, पितरः, अनु, मदन्तु //

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

Purusha Suktam – पुरुष सूक्तम् >>


<< Ekadasa Vara Rudrabhishekam – एकादश वाराभिषेचनम्


Facebook Comments Box
Exit mobile version