Sri Rudra Chamakam 3rd Anuvakam – श्रीरुद्र चमकम् – तृतीयोऽनुवाकम्

<< द्वितीयोऽवानुकः

शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ ३ ॥

// शम्, च, मे, मयः, प्रियम्, अनु-कामः, कामः, सौमनसः, भद्रम्, श्रेयः, वस्यः, यशः, भगः, द्रविणम्, यन्ता, धर्ता, क्षेमः, धृतिः, विश्वम्, महः, सं-वित्, ज्ञात्रम्, सूः, प्र-सूः, सीरम्, लयः, ऋतम्, अमृतम्, अयक्ष्मम् अनामयत्, जीवातुः, दीर्घायुत्वम्, अनमित्रम्, अभयम्, सुगम्, शयनम्, सूषा, सुदिनम्, च, मे //

Chamakam 4th Anuvakam – चतुर्थोऽनुवाकः >>


<< Tritiya Vara Rudrabhishekam – तृतीय वाराभिषेचनम्


 


Facebook Comments Box
Exit mobile version