अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ मेऽकृष्टप॒च्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥ ५ ॥
// अश्मा, च, मे, मृत्तिका, गिरयः, पर्वताः, सिकताः, वनस्पतयः, हिरण्यम्, अयः, सीसम्, त्रपु, श्यामम्, लोहम्, अग्निः, आपः, वीरुधः, ओषधयः, कृष्टपच्यम्, अकृष्टपच्यम्, ग्राम्याः, पशवः, आरण्याः, यज्ञेन कल्पन्ताम्, वित्तम्, वित्तिः, भूतम्, भूतिः, वसु, वसतिः, कर्म, शक्तिः, अर्थः, एमः, इतिः, गतिः, च, मे //
Chamakam 6th Anuvakam – षष्ठोऽनुवाकः >>
<< Panchama Vara Rudrabhishekam – पञ्चम वाराभिषेचनम्