Sri Rudra Chamakam 7th Anuvakam – श्रीरुद्र चमकम् – सप्तमोऽनुवाकम्

<< षष्ठोऽनुवाकः

अ॒ग्ं॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ग्ं॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म, ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म, आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म, आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म, ऋतुग्र॒हाश्च॑ मेऽतिग्रा॒ह्या᳚श्च म, ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया᳚श्च मे माहे॒न्द्रश्च॑ म, आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ ७ ॥

// अंशुः, रश्मिः, अदाभ्यः, अधि-पतिः, उप-अंशुः, अन्तः-यामः, ऐन्द्र-वायवः, मैत्रा-वरुणः, आश्विनः, प्रति-प्रस्थानः, शुक्रः, आग्रयणः, वैश्व-देवः, ध्रुवः, वैश्वानरः, ऋतु-ग्रहाः, अति-ग्राह्याः, ऐन्द्र-अग्नः, वैश्व-देवः, मरुत्वतीयाः, माहा-इन्द्रः, आदित्यः, सावित्रः, सारस्वतः, पौष्णः, पात्नी-व्रतः, हारि-योजनः, च मे //

Chamakam 8th Anuvakam – अष्टमोऽनुवाकः >>


<< Sapthama Vara Rudrabhishekam – सप्तम वाराभिषेचनम्


 


Facebook Comments Box
Exit mobile version