इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म, उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म, आधव॒नीय॑श्च म॒, आग्नी᳚ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ॥ ८ ॥
// इध्मः, च, मे, बर्हिः, वेदिः, धिष्णियाः, स्रुचः, चमसाः, ग्रावाणः, स्वरवः, उप-रवाः, अधि-षवणे, द्रोण-कलशः, वायव्यानि, पूत-भृत्, आ-धवनीयः, आग्नि-ईध्रम्, हविः-धानम्, सदः, पुरोडाशाः, पचताः, अव-भृथः, स्वगा-कारः, च, मे //
Chamakam 9th Anuvakam – नवमोऽनुवाकः >>
<< Ashtama Vara Rudrabhishekam – अष्टम वाराभिषेचनम्
Facebook Comments Box