अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक् च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म, ऋ॒तुश्च॑ मे व्र॒तं च॑ मेऽहोरा॒त्रयो᳚र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ॥ ९ ॥
// अग्निः, च, मे, घर्मः, अर्कः, सूर्यः, प्र-अनः, अश्व-मेधः, पृथिवी, अदितिः, दितिः, द्यौः, शक्वरीः, अङ्गुलयः, दिशः, यज्ञेन, कल्पन्ताम्, ऋक्, साम, स्तोमः, यजुः, दीक्षा, तपः, ऋतुः, व्रतम्, अहः-रात्रयोः, वृष्ट्या, बृहत्-रथन्तरे, यज्ञेन कल्पेताम् //
Chamakam 10th Anuvakam – दशमोऽनुवाकः >>
<< Navama Vara Rudrabhishekam – नवम वाराभिषेचनम्
Facebook Comments Box