Sri Rudra Namakam 10th Anuvakam – श्रीरुद्र नमकम् – दशमोऽनुवाकम्

द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित ।
ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्माऽरो॒ मो ए॑षां॒ किं च॒नाऽऽम॑मत् ॥ १

// द्रापे, अन्धसः, पते, दरिद्रत्, नील-लोहित, एषाम्, पुरुषाणाम्, एषाम्, पशूनाम्, मा, भेः, मा, अरः, मो, एषाम्, किम्, चन, आममत् //

या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी ।
शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚ ॥ २

// ये, ते, रुद्र, शिवा, तनूः, शिवा, विश्वाह-भेषजी, शिवा, रुद्रस्य, भेषजी, तया, नः, मृड, जीवसे //

इ॒माग्ं रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तिम् ।
यथा॑ न॒: शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्नना॑तुरम् ॥ ३

// इमां, रुद्राय, तवसे, कपर्दिने, क्षयत्-वीराय, प्र, भरामहे, मतिम्, यथा, नः, शम्, असत्, द्वि-पदे, शम्, चतुः-पदे, विश्वम्, पुष्टम्, ग्रामे, अस्मिन्, अना-तुरम् //

मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ॥ ४

// मृड, नः, रुद्र, उत, नः, मयः, कृधि, क्षयत्-वीराय, नमसा, विधेम, ते, यत्, शम्, च, योः, च, मनुः, आ-यजे, पिता, तत्, अश्याम, तव, रुद्र, प्र-नीतौ //

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॑ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रु॒द्र॒ री॒रि॒ष॒: ॥ ५

// मा, नः, महान्तम्, उत, मा, नः, अर्भकम्, मा, नः, उक्षन्तम्, उत, मा, नः, उक्षितम्, मा, नः, वधीः, पितरम्, मा, उत, मातरम्, प्रियाः, मा, नः, तनुवः, रुद्र, रीरिषः //

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ ६

// मा, नः, तोके, तनये, मा, नः, आयुषि, मा, नः, गोषु, मा, नः, अश्वेषु, रीरिषः, वीरान्, मा, नः, रुद्र, भामितः, वधीः, हविष्मन्तः, नमसा, विधेम, ते //

आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने  क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु ।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च न॒: शर्म॑ यच्छ द्वि॒बर्हा᳚: ॥ ७

// आरात्, ते, गो-घ्न, उत, पूरुष-घ्ने, क्षयत्-वीराय, सुम्नम्, अस्मे, ते, अस्तु, रक्ष, च, नः, अधि, च, देव, ब्रूहि, अध, च, नः, शर्म, यच्छ, द्वि-बर्हाः //

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन्निव॑पन्तु॒ सेना᳚: ॥ ८

// स्तुहि, श्रुतम्, गर्त-सदम्, युवानम्, मृगम्, न, भीमम्, उपहत्नुम्, उग्रं, मृडा, जरित्रे, रुद्र, स्तवानः, अन्यम्, ते, अस्मत्, नि-वपन्तु, सेनाः //

परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥ ९

// परि, नः, रुद्रस्य, हेतिः, वृणक्तु, परि, त्वेषस्य, दुः-मतिः, अघ-योः, अव, स्थिरा, मघवत्-भ्यः, तनुष्व, मीढ्वः, तोकाय, तनयाय, मृडय //

मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ॥ १०

// मीढुः-तम, शिव-तम, शिवः, नः, सु-मनाः, भव, परमे, वृक्षे, आयुधम्, निधाय, कृत्तिं वसानः, आ, चर, पिनाक, बिभ्रत्, आ, गहि //

विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्रग्ं॑ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ॥ ११

// वि-किरिद, वि-लोहित, नमः, ते, अस्तु, भग-वः, याः, ते, सहस्रम्, हेतयः, अन्यम्, अस्मत्, नि, वपन्तु, ताः //

स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तय॑: ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ १२ ॥ १० ॥

// सहस्राणि, सहस्र-धा, बाहुवोः, तव, हेतयः, तासाम्, ईशानः, भग-वः, पराचीना, मुखा, कृधि //

Namakam 11th Anuvakam – एकादश अनुवाकम् >>


Facebook Comments Box
Exit mobile version