Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम्

<< Sri Rudram (Dhyanam and Nyasam) -श्री रुद्रम् (ध्यानम्, न्यासम्)

॥ श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ॥

ओं नमो भगवते॑ रुद्रा॒य ॥ ओं नम् ॥

(तै.सं.४-५)

॥ प्रथमोऽनुवाकम् ॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नम॑: ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नम॑: ॥ १

// नमः, ते, रुद्र, मन्यवे, उतो, ते, इषवे, नमः, नमः, ते, अस्तु, धन्वने, बाहु-भ्याम्, उत, ते, नमः //

या त॒ इषु॑: शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनु॑: ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥ २

// या, ते, इषुः, शिव-तमा, शिवम्, बभूव, ते, धनुः, शिवा, शरव्या, या, तव, तया, नः, रुद्र, मृडय //

या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥ ३

// या, ते, रुद्र, शिवा, तनूः, अघोरा, अपाप-काशिनी, तया, नः, तनुवा, शं-तमया, गिरि-शन्त, अभि-चाकशीहि //

यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे ।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिग्ं॑सी॒: पुरु॑षं॒ जग॑त् ॥ ४

// याम्, इषुम्, गिरि-शन्त, हस्ते, बिभर्षि, अस्तवे, शिवाम्, गिरि-त्र, ताम्, कुरु, मा, हिंसीः, पुरुषम्, जगत् //

शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि ।
यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मग्ं सु॒मना॒ अस॑त् ॥ ५

// शिवेन, वचसा, त्वा, गिरिश, अच्छ, वदामसि, यथा, नः, सर्वम्, इत्, जगत्, अयक्ष्मं, सु-मनाः, असत् //

अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीग्ग्॑श्च॒ सर्वा᳚ञ्जं॒भय॒न्त्सर्वा᳚श्च यातुधा॒न्य॑: ॥ ६

// अधि, अवोचत्, अधि-वक्ता, प्रथमः, दैव्यः, भिषक्, अहीन्, च, सर्वान्, जम्भयन्, सर्वाः, च, यातु-धान्यः //

अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चे॒माग्ं रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ग्ं॒ हेड॑ ईमहे ॥ ७

// असौ, यः, ताम्रः, अरुणः, उत, बभ्रुः, सु-मङ्गलः, ये, च, इमाम्, रुद्राः, अभितः, दिक्षु, श्रिताः, सहस्र-शः, अव, एषाम्, हेडः, ईमहे //

अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्य॑: ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥ ८

// असौ, यः, अव-सर्पति, नील-ग्रीवः, वि-लोहितः, उत, एनम्, गो-पाः, अदृशन्, अदृशन्, उदहार्यः, उत, एनम्, विश्वा, भूतानि, सः, दृष्टः, मृडयाति, नः //

नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
अथो॒ ये अ॑स्य॒ सत्त्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ॥ ९

// नमः, अस्तु, नील-ग्रीवाय, सहस्र-अक्षाय, मीढुषे, अथो, ये, अस्य, सत्वानः, अहं, तेभ्यः, अकरम्, नमः //

प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ॥ १०

// प्र, मुञ्च, धन्वनः, त्वं, उभयोः, आर्त्नियोः, ज्याम्, याः, च, ते, हस्ते, इषवः, पर, ताः, भग-वः, वप //

अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ॥ ११

// अव-तत्य, धनुः, त्वम्, सहस्र-अक्ष, शत-इषुधे, नि-शीर्य, शल्यानाम्, मुखा, शिवः, नः, सु-मनाः, भव //

विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथि॑: ॥ १२

// वि-ज्यम्, धनुः, कपर्दिनः, वि-शल्यः, बाण-वान्, उत, अनेशन्, अस्य, इषवः, आभुः, अस्य, निषङ्गथिः //

या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: ।
तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥ १३

// या, ते, हेतिः, मीढुः-तम, हस्ते, बभूव, ते, धनुः, तया, अस्मान्, विश्वतः, त्वम्, अयक्ष्मया, परि, भुज //

नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥ १४

// नमः, ते, अस्तु, आयुधाय, अना-तताय, धृष्णवे, उभाभ्याम्, उत, ते, नमो, बाहु-भ्याम्, तव, धन्वने //

परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ॥ १५

// परि, ते, धन्वनः, हेतिः, अस्मान्, वृणक्तु, विश्वतः, अथो, यः, इषु-धिः, तव, आरे, अस्मत्, निधेहि, तम् //

नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नम॑: ॥ १६ ॥ १ ॥ 

Namakam 2nd Anuvakam – श्रीरुद्र नमकम् – द्वितीयोऽनुवाकम् >>


Facebook Comments Box
Exit mobile version