Sri Rudra Namakam 2nd Anuvakam – श्रीरुद्र नमकम् – द्वितीयोऽनुवाकम्

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नम॑: कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नम॑: ॥ २ ॥

// नमः, हिरण्य-बाहवे, सेना-न्ये, दिशां पतये, वृक्षेभ्यः, हरि-केशेभ्यः, पशूनां पतये, सस्पिञ्जराय, त्विषी-मते, पथीनं पतये, बभ्लुशाय, वि-व्याधिने, अन्नानां पतये, हरि-केशाय, उप-वीतिने, पुष्टानां पतये, भवस्य, हेत्यै, जगतां पतये, रुद्राय, आ-तताविने, क्षेत्राणां पतये, सूताय, अहन्त्याय, वनानां पतये, रोहिताय, स्थपतये, वृक्षाणां पतये, मन्त्रिणे, वाणिजाय, कक्षाणां पतये, भुवन्तये, वारिवः-कृताय, ओषधीनां पतये, उच्चैः-घोषाय, आ-क्रन्दयते, पत्तीनां पतये, कृत्स्न-वीताय, धावते, सत्वनां पतये, नमः//

Namakam 3rd Anuvakam – तृतीयोऽनुवाकम् >>


Facebook Comments Box
Exit mobile version