Sri Rudra Namakam 3rd Anuvakam – श्रीरुद्र नमकम् – तृतीयोऽनुवाकम्

नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नम॑: ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नम॑: सृका॒विभ्यो॒ जिघाग्ं॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्य॒: शया॑नेभ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नम॑: ॥ ३ ॥

// नमः, सहमानाय, नि-व्याधिने, आ-व्याधिनीनाम्, पतये, ककुभाय, नि-सङ्गिने, स्तेनानां पतये, नि-सङ्गिने, इषुधि-मते, तस्कराणां पतये, नि-चेरवे, परि-चराय, अरण्यानां पतये, सृकावि-भ्यः, जिघांसत्-भ्यः, मुष्णतां पतये, असिमत्-भ्यः, नक्तम्, चरत्-भ्यः, प्र-कृन्तानां पतये, उष्णीषिणे, गिरि-चराय, कुलुञ्चानां पतये, इषुमत्-भ्यः, धन्वावि-भ्यः, वः, आ-तन्वानेभ्यः प्रति-दधानेभ्यः, आयच्छत्-भ्यः, विसृजत्-भ्यः, अस्यत्-भ्यः, विध्यत्-भ्यः, आसीनेभ्यः, शयानेभ्यः, स्वपत्-भ्यः, जाग्रत्-भ्यः, तिष्ठत्-भ्यः, धावत्-भ्यः, सभाभ्यः, सभापति-भ्यः, च, वः, नमः //

Namakam 4th Anuvakam – चतुर्थोऽनुवाकम् >>


Facebook Comments Box
Exit mobile version