Sri Rudra Namakam 4th Anuvakam – श्रीरुद्र नमकम् – चतुर्थोऽनुवाकम्

नम॑ आव्या॒धिनी᳚भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृग्ंह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑ गृ॒थ्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑ म॒हद्भ्य॑: क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे᳚भ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒ नम॒: सेना᳚भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे᳚भ्यश्च वो॒ नमो॒ नम॑: पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्य॑: श्व॒निभ्य॑श्च वो॒ नमो॒ नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नम॑: ॥ ४ ॥

// नमः, आ-व्याधिनीभ्यः, वि-विध्यन्तीभ्यः, उगणाभ्यः, तृंहतीभ्यः, गृथ्सेभ्यः, गृत्सपति-भ्यः, व्रातेभ्यः, व्रातपति-भ्यः, गणेभ्यः, गणपति-भ्यः, वि-रूपेभ्यः, विश्व-रूपेभ्यः, महत्-भ्यः, क्षुल्लकेभ्यः, रथि-भ्यः, अरथेभ्यः, रथेभ्यः, रथपति-भ्यः, सेनाभ्यः, सेनानि-भ्यः, क्षत्तृ-भ्यः, संग्रहीतृ-भ्यः, तक्ष-भ्यः, रथ-कारेभ्यः, कुलालेभ्यः, कर्मारेभ्यः, पुञ्जिषेभ्यः, निषादेभ्यः, इषुकृत्-भ्यः, धन्वकृत्-भ्यः, मृगयु-भ्यः, श्वनि-भ्यः, श्व-भ्यः, श्वपति-भ्यः, च, वः, नमः //

Namakam 5th Anuvakam – पञ्चमोऽनुवाकम् >>


Facebook Comments Box