Sri Rudra Namakam 8th Anuvakam – श्रीरुद्र नमकम् – अष्टमोऽनुवाकम्

<< Namakam 7th Anuvakam – सप्तमोऽनुवाकम्

नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नम॑: श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नम॑: शं॒भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॑: पा॒र्या॑य चावा॒र्या॑य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाऽऽला॒द्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च॒ नम॑: सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ ८ ॥

// नमः, सोमाय, रुद्राय, ताम्राय, अरुणाय, शङ्गाय, पशु-पतये, उग्राय, भीमाय, अग्रे-वधाय, दूरे-वधाय, हन्त्रे, हनीयसे, वृक्षेभ्यः, हरि-केशेभ्यः, ताराय, शं-भवे, मयः-भवे, शं-कराय, मयः-कराय, शिवाय, शिव-तराय, तीर्थ्याय, कूल्याय, पार्याय, अवार्याय, प्र-तरणाय, उत्-तरणाय, आ-तार्याय, च, आ-लाद्याय, शष्प्याय, फेन्याय, सिकत्याय, प्र-वाह्याय, च //

Namakam 9th Anuvakam – नवमोऽनुवाकम् >>


Facebook Comments Box