हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्ण र॑जत॒स्रजाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥ १ ॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीम॑नपगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २ ॥
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑ दे॒वी जु॑षताम् ॥ ३ ॥
कां सो᳚स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ४ ॥
च॒न्द्रां प्र॑भा॒सां यश॑सा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥ ५ ॥
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑ जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रायाश्च बा॒ह्या अ॑ल॒क्ष्मीः ॥ ६ ॥
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन्॒ की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ ७ ॥
क्षु॒त्पि॒पा॒साम॑लां ज्ये॒ष्ठाम॒ल॒क्ष्मीर्ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च स॒र्वा॒न्निर्णु॑द मे॒ गृहात् ॥ ८ ॥
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ९ ॥
मन॑स॒: काम॒माकू॑तिं वा॒चस्स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीश्श्र॑यतां॒ यश॑: ॥ १० ॥
क॒र्दमे॑न प्र॑जाभू॒ता म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११ ॥
आप॑: स्र॒जन्तु॑ स्निग्धा॒नि चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२ ॥
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥ १३ ॥
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥ १४ ॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५ ॥
य॒श्शुचि॑: प्रय॑तो भू॒त्वा जु॒हुया॑दाज्यम॒न्व॑हम् ।
श्रिय॑: प॒ञ्चद॑शर्चं॒ च श्री॒काम॑स्सत॒तं ज॑पेत् ॥ १६ ॥
—-
आनन्दः कर्द॑मश्चै॒व चि॒क्ली॒त इ॑ति वि॒श्रुताः ।
ऋष॑य॒स्ते त्र॑यः पु॒त्राः स्व॒यं॒ श्रीरेवदे॒वता ॥
पद्मानने प॑द्म ऊ॒रू प॒द्मा॒क्षी प॑द्मस॒म्भवे ।
त्वं मां᳚ भ॒जस्व॑ पद्मा॒क्षि॒ ये॒न॒ सौख्यं॑ लभा॒म्यहम् ॥
अ॒श्वदा॑यि च॑ गोदा॒यि ध॒नदा॑यि म॒हाध॑ने ।
धनं॑ मे॒ जुष॑तां दे॒वी॒ स॒र्वका॑मार्थ॒सिद्ध॑ये ॥
पु॒त्र॒पौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा॑जावि॒गो र॑थम् ।
प्र॒जा॒नां भ॑वसि मा॒ता आ॒यु॒ष्मन्तं॑ करो॒तु माम् ॥
चन्द्राभां लक्ष्मी॑मी॒शा॒नां सु॒र्याभां᳚ श्रिय॒मीश्व॑रीम् ।
चन्द्र॑सू॒र्याग्नि॑ सर्वा॒भां श्रीम॒हा॒लक्ष्मी॑मुपा॒स्महे ॥
ध॒नमग्निर्ध॑नं वा॒युर्द॒नं॒ सूर्यो॑ धनं॒ वसु॑: ।
धन॒मिन्द्रो॒ बृहस्प॒ति॒र्वरु॑णं ध॒नम॑श्नु ते ॥
वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा ।
सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिनी॑ ॥
न क्रोधो न च॑ मात्स॒र्यं न॒ लो॒भो ना॑शु॒भामतिः ।
भव॑न्ति॒ कृत॑पुण्या॒नां भ॒क्ता॒नां श्रीसू᳚क्तं ज॒पेत्स॑दा ॥
वर्ष᳚न्तु॒ ते वि॑भावरि दि॒वो अ॒भ्रस्य॑ वि॒द्युत॑: ।
रोह᳚न्तु॒ सर्व॑बीजा॒न्यव॑ ब्रह्म॒ द्विषो᳚ जहि ॥
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदळायताक्षी ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गंभीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरंगधामेश्वरीं
दासीभूतसमस्त देववनितां लोकैकदीपांकुराम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां
त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
शुद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीर्लक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥
वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिनेत्रां भजेहमम्बां जगदीश्वरीं ताम् ॥
सर्वमङ्गळमाङ्गळ्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके देवि नारायणि नमोऽस्तु ते ॥
ओं म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
ओं शान्ति॒श्शान्ति॒श्शान्ति॑: ।
Manyu Suktam – मन्यु सूक्तम् >>
<< Ekadasa Vara Rudrabhishekam – एकादश वाराभिषेचनम्
इतर सूक्तानि पश्यतु ॥