14. Purusha Suktam – पुरुष सूक्तम्

<< 13. शिवसङ्कल्पाः

(ऋ.वे. १०-९०-१, तै.आ.३-१२-३३)

स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदग्ं सर्व᳚म् । यद्भू॒तं यच्च॒ भव्य᳚म् । उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ॥ १ ॥

// सहस्र-शीर्षा, पुरुषः, सहस्र-अक्षः, सहस्र-पात्, सः, भूमिं, विश्वतः, वृत्वा, अति, अतिष्ठत्, दश-अङ्गुलं, पुरुषः, एव, इदं, सर्वं, यत्, भूतं, यत्, च, भव्यं, उत, अमृत-त्वस्य, ईशानः, यत्, अन्नेन, अति-रोहति, एतावान्, अस्य, महिमा, अतः, ज्यायान्, च, पुरुषः //

पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाभ॑वा॒त्पुन॑: । ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधिपूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ २ ॥

// पादः, अस्य, विश्वा, भूतानि, त्रि-पात्, अस्य, अमृतं, दिवि, त्रि-पात्, ऊर्ध्व, उत, ऐत्, पुरुषः, पादः, अस्य, इह, अभवत्, पुनः, ततः, विष्वङ्, वि, अक्रामत्, साशनानशने, अभि, तस्मात्, विराट्, अजायत, वि-राजः, अधि, पुरुषः, सः, जातः, अति, अरिच्यत, पश्चात्, भूमिं, अथो, पुरः //

यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्य᳚म् । ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः । स॒प्तास्या॑सन्परि॒धय॑: । त्रिः स॒प्त स॒मिध॑: कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् । तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ॥ ३ ॥

// यत्, पुरुषेण, हविषा, देवाः, यज्ञं, अतन्वत, वसन्तः, अस्य, आसीत्, आज्यं, ग्रीष्मः, इध्मः, शरत्, हविः, सप्त, अस्य, आसन्, परि-धयः, त्रिः, सप्त, सं-इधः, कृताः, देवा, यत्, यज्ञं, तन्वानाः, अ-बध्नन्, पुरुषं, पशुं, तं, यज्ञं, बर्हिषि, प्र, औक्षन्, पुरुषं, जातं, अग्रतः //

तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुत॑: । संभृ॑तं पृषदा॒ज्यम् । प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुत॑: । ऋच॒: सामा॑नि जज्ञिरे । छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥ ४ ॥

// तेन, देवा, अयजन्त, साध्या, ऋषयः, च, ये, तस्मात्, यज्ञात्, सर्व-हुतः, सं-भृतं, पृषत्-आज्यं, पशून्, तान्, चक्रे, वायव्यान्, आरण्यान्, ग्राम्याः, च, ये, तस्मात्, यज्ञात्, सर्व-हुतः, ऋचः, सामानि, जज्ञिरे, छन्दांसि, जज्ञिरे, तस्मात्, यजुः, तस्मात्, अजायत //

तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।  यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्य॑: कृ॒तः ॥ ५ ॥

// तस्मात्, अश्वाः, अजायन्त, ये, के, च, उभयादतः, गावः, ह, जज्ञिरे, तस्मात्, तस्मात्, जाताः, अजावयः, यत्, पुरुषं, वि, अदधुः, कतिधा, वि, अकल्पयन्, मुखं, किं, अस्य, कौ, बाहू, कौ, ऊरू, पादौ, उच्येते, ब्राह्मणः, अस्य, मुखं, आसीत्, बाहू, राजन्यः, कृतः //

ऊ॒रू तद॑स्य॒ यद्वैश्य॑: । प॒द्भ्याग्ं शू॒द्रो अ॑जायत । च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒: सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत । नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन् ॥ ६ ॥

// ऊरू, तत्, अस्य, यत्, वैश्यः, पत्-भ्यां, शूद्रः, अजायत, चन्द्रमा, मनसः, जातः, चक्षोः, सूर्यः, अजायत, मुखात्, इन्द्रः, च, अग्निः, च, प्राणात्, वायुः, अजायत, नाभ्याः, आसीत्, अन्तरिक्षं, शीर्ष्णः, द्यौः, सं-अवर्तत, पत्-भ्यां, भूमिः, दिशः, श्रोत्रात्, तथा, लोकान्, अकल्पयन् //

वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ । धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ ७ ॥

// वेद, अहं, एतं, पुरुषं, महान्तं, आदित्य-वर्णं, तमसः, तु, पारे, सर्वाणि, रूपाणि, विचित्य, धीरः, नामानि, कृत्वा, अभिवदन्, यत्, आस्ते, धाता, पुरः-तात्, यं, उदाजहार, शक्रः, प्र-विद्रान्, प्र-दिशः, चतस्रः, तं, एवं, विद्वान्, अमृतः, इह, भवति, न, अन्यः, पन्थाः, अयनाय, विद्यते, यज्ञेन, यज्ञं, अयजन्त, देवाः, तानि, धर्माणि, प्रथमानि, आसन्, ते, ह, नाकं, महिमानः, सचन्ते, यत्र, पूर्वे, साध्याः, सन्ति, देवाः //

ओं नमो भगवते॑ रुद्रा॒य । पुरुषसूक्तग्ं शिरसे स्वाहा ॥

15. Uttara Narayanam – उत्तरनारायणम् >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box