Mahanyasa Khanda (Smartha Paddhati) – स्मार्त न्यासखण्डः
हरिः ओम् ॥ अथातःपञ्चाङ्गरुद्राणां न्यासपूर्वकम्जपहोमार्चनाऽभिषेक विधिं व्याख्यास्यामो यातेरुद्रेति शिखाया मस्मिन्महत्यर्णव इतिशिरसि सहस्राणीतिललाटे, हग्ं सश्सुचिषदिति भ्रुवोर्मध्ये, त्रयम्बकम्यजामह इतिनेत्रयो, र्नमस्स्रुत्या येति कर्णयो, र्मानस्तोक इतिनासिकाया, मवतत्येति मुखे, नीलग्रीवौद्वौकण्ठे, समस्ते अस्त्वायुधायेति बाह्वो, र्याते हेतिरित्युपबाह्वोः, परिणोरुद्रस्यहेतिरिति मणिबन्धयो, र्येतीर्थानीतिच हस्तयो, स्सद्योजातमिति…