स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् ।
तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।
अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ ।
नील॑ग्रीवाः शिति॒कण्ठा᳚: श॒र्वा अ॒धः क्ष॑माच॒राः ।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।
ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: ।
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
ये प॒थां प॑थि॒ रक्ष॑य ऐलबृ॒दा य॒व्युध॑: ।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिण॑: ।
य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाग्ं॑ सहस्र योज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ १
// सहस्राणि, सहस्र-शः, ये, रुद्राः, अधि, भूम्याम्, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि, अस्मिन्, महति, अर्णवे, अन्तरिक्षे, भवाः, अधि, नील-ग्रीवाः, शिति-कण्ठाः, शर्वाः, अधः, क्षमाचराः, दिवम्, रुद्राः, उप-श्रिताः, ये, वृक्षेषु, सस्पिञ्जराः, नील-ग्रीवाः, वि-लोहिताः, ये, भूतानाम्, अधि-पतयः, वि-शिखासः, कपर्दिनः, ये, अन्नेषु, वि-विध्यन्ति, पात्रेषु, पिबतः, जनान्, ये, पथाम्, पथि-रक्षयः, ऐलबृदाः, यव्युधः, ये, तीर्थानि, प्र-चरन्ति, सृका-वन्तः, नि-सङ्गिनः, य, एतावन्तः च, भूयांसः श्च, दिशः, रुद्राः, वि-तस्थिरे, तेषाम्, सहस्र-योजने, अव, धन्वानि, तन्मसि //
नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ये᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्॒षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥ ११ ॥
// नमः, रुद्रेभ्यः, ये, पृथिव्याम्, ये, अन्तरिक्षे, ये, दिवि, एषाम्, अन्नं, वातः, वर्षम्, इषवः, तेभ्यः, दश, प्राचीः, दश, दक्षिणा, दश, प्रतीचीः, दश, उदीचीः, दश, ऊर्ध्वाः, तेभ्यः, नमः, ते, नः, मृडयन्तु, ते, यं, द्विष्मः, यः, च, नः, द्वेष्टि, तम्, वः, जम्भे, दधामि //
—
अनुश्रुतिः –
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥ १
// त्रि, अम्बकम्, यजामहे, सुगन्धिं, पुष्टिवर्धनम्, उर्वारुकं, इव, बन्धनान्, मृत्योः, मुक्षीय, मा, मृतात् //
(तै.सं. ५-५-९-३)
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो
विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ २
// यः, रुद्रः, अग्नौ, यः, अप्सु, यः, ओषधीषु, यः, रुद्रः, विश्वा, आविवेश, तस्मै, रुद्राय, नमो, अस्तु //
(ऋ.वे.५-४२-११)
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚ऽभिर्दे॒वमसु॑रं दुवस्य ॥ ३
// तम्, ऊं (इति), स्तुहि, यः, सु-इषुः, सु-धन्वा, यः, विश्वस्य, क्षयति, भेषजस्य, यक्ष्व, महे, सौमनसाय, रुद्रम्, नमः, अभिः, देवम्, असुरम्, दुवस्य //
(ऋ.वे.१०-६०-१२)
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे᳚ वि॒श्व भे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ॥ ४
// अयं, मे, हस्तः, भग-वान्, अयं, मे, भगवत्-तरः, अयं, मे, विश्व-भेषजः, अयं, शिव-अभिमर्शनः //
(तै.आ.१०-५७-१,२)
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑यजामहे ॥ ५
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥ ६
// ये, ते, सहस्रं, अयुतं, पाशा, मृत्योः, मर्त्याय, हन्तवे, तान्, यज्ञस्य, मायया, सर्वान्, अव, यजामहे, मृत्यवे, स्वाहा //
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।
तेनान्नेना᳚प्याय॒स्व । ७
नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
Chamakam 1st Anuvakam – प्रथमोऽनुवाकः >>